________________ प्रथमो वृक्षकाण्डः / 7i9 स तु चतुर्मुखो ब्रह्मा 'सः' रुद्राक्षः चतुर्मुखो ब्रह्मोच्यते / द्विमुखस्तु वरार्गलः / 'तुः' पुनरर्थे / वरा अर्गला अस्य वरार्गलो द्विमुखः प्रोच्यते / षण्मुखस्तु कार्तिकेयः 'तुः' पुनरर्थे / षण्मुखः कार्तिकेय उच्यते / पञ्चमुखस्तु शङ्करः // 142 // 'तु' पुनः पञ्चमुखी रुद्राक्षः शङ्कर उच्यते // 142 // ___माधवस्त्वेकवदनो विजयी शस्त्रधारणः / 'तु' पुनः एकवदनो मा-लक्ष्मीस्तस्या धवो माधवः / विजयोऽस्त्यस्य 10 विजयी / शस्त्रं धारयति शस्त्रधारणः। रुद्राक्षनामानि / पुत्रञ्जीवे त्वक्षफलः कुमार-जीवनामकः // 143 // पुत्रं जीवति पुत्रञ्जीवः, पृषोदरादित्वान्मोऽन्तः, तत्र / अक्षवत् फलान्यस्य अक्षफलः / 'कुमारजीवनामकः' इति कुमार-जीवाभ्यां पुरो नामेति शब्दः सम्बध्यते, तेन कुमारनामकः जीवनामकश्च / पुत्रजीवनामानि // 143 // 15 करब्जे स्यान्नक्तमालः पूतिकश्चिरिबिल्वकः। करजः श्लीपदारिश्च प्रकीर्णः कलिनाशकः // 144 // पूतिकरञ्जो गौरश्च सुमना घृतपर्णकः। .. कर जयति करञ्जः, “क्वचित्" [ सिद्ध 0 5.1.171 ] इति डे पृषोदरादित्वात् साधुः; करोति वा "कृगोऽञ्जः” [ हैमोणादिसू० 136 ] इत्यञ्जः, तत्र / नक्तं-रात्रौ 20 आलम्-अनर्थोऽस्माद् नक्तमालः, भूताश्रयत्वात् / रक्तमालः इत्येके / पूतिको दुर्गन्धः / चिरिणं बिलति-भिनत्ति चिरिबिल्वः, “नि-घृ-षी-" [ हैमोणादिसू० 511] इति किद्वः, स्वार्थिक के चिरिबिल्वकः / करं जयति करजः, "क्वचित्" [ सिद्ध 0 5.1.171 ] इति डः; कीर्यते वा "उटजादयः” [हैमोणादिसू० 134 ] इत्यजे निपात्यते / लीपदस्य अरिः श्लीपदारिः। प्रकीर्यते प्रकीर्णः, क्तप्रत्ययः / कलिं 25 1. * श्चिरबि deg नि० // 2 प्रकीर्यः कलिनाशनः नि० // 3 एके क्षीरस्वाम्यादयः। “रक्तमाल इति स्वामी" इति व्याख्यासुधायाम् // 4 कीडीनगरउ पु 2 टिप्पणी //