________________ 78] सटीके निघण्टुशेषे [श्लो० 140 अक्षोटः कर्परालश्च फलस्नेहो गुहाश्रयः। 'तुः' पुनः 'तस्मिन् ' पीलौ ‘गिरिसम्भवे' गिरिजाते // 139 // “अक्षौ व्याप्तौ च” अक्ष्णोति अक्षोटः; अश्नाति वा, "कपोट-वकोटा-ऽक्षोट-" [ हैमोणादिसू० 161] इत्योटे निपात्यते / कप रे अलति-दीप्यते कर्परालः / “कन्द। राऽस्यास्ति कन्दरां लाति वा कन्दरालः, कन्दरावेष्टनात्" इत्यपरे / फले स्नेहोऽस्य फलस्नेहः / गुहायामाश्रयोऽस्य गुहाश्रयः / आह च अक्षोटः पार्वतीयश्च फलस्नेहो गुहाश्रयः / कीरेष्टः कन्दरालश्च स्वादुमज्जो मृदुच्छदः // एतस्य लोके 'अखोड' इति प्रसिद्धिः / 10 पारापते तु साराम्लः कृतमालः परावतः // 140 // आरेवतः सारफल: पारमापतति पारापतः, लिहादित्वादच् , तत्र / सारः-मज्जा अम्लोऽस्य साराम्लः / कृता मालाऽस्य कृतमालः / “पृश् पालन-पूरणयोः" "वादे:-" [सिद्ध 04.2.105 ] इति हस्वे पृणाति परावतः, “पुत-पित्त-" [हैमोणादिसू० 15 204 ] इति ते निपात्यते // 140 // आरेवत्यां भवः आरेवतः; "रेवङ् गतौ” आरेवन्ते ज्वरा अनेन वा / सारं फलमस्य सारफलः। महापारावतो?ते) महान् / कपोताण्डतुल्यफलः . 20 महांश्चासौ पारावतश्च महापारावतः, तत्र / महापारावतैकदेशे महान् , यथा सेनो भीमसेनः / कपोताण्डतुल्यानि फलानि अस्य कपोताण्डतुल्यफलः। रुद्राक्षे तु महामुनिः // 14 // रुद्रस्य अक्षि रुद्राक्षः, “सक्थ्यक्ष्णः-" [ सिद्ध 07.3.126] इत्यट् (इति टः) समासान्तः, तत्र / मन्यते मुनिः, “मनेरुदेतौ चास्य वा” [ हैमोणादिसू० 612] 35 इति इ: अकारस्य च उकारः, महांश्चासौ मुनिश्च महामुनिः // 141 // 1 गुहाशयः नि. // 2 पारावारे तु साराम्लो रक्तमालः नि०॥.....