________________ 139] [77 * महानिम्बे निम्बरकः कामुको विषमुष्टिकः / रम्यकः क्षीबको वैकाऽक्षिपीलुः केशमुष्टिकः // 138 // महांश्चासौ निम्बश्च महानिम्बः, तत्र / निम्बवद् रक्यते-आस्वाद्यते निम्बरकः / कमनशीलः कामुकः। विषस्य मुष्टिरिव विषमुष्टिः, के विषमुष्टिकः। रमयति रम्यः, "भव्य-गेय-जन्य-रम्य-" [सिद्ध 0 5.1.7] इति साधुः, स्वार्थिके / के रम्यकः / "क्षीवृङ् मदे" क्षीवते क्षीबकः / [वृज्यते वृक्का, “निष्क-तुरुष्क-" [ हैमोणादिसू० 26 ] इति के निपात्यते ] / अक्षिण पीलुः अक्षिपीलुः। केशानां मुष्टिः केशमुष्टिः, के केशमुष्टिकः। आह च महानिम्बः स्मृतोद्रेकः कामुको विषमुष्टिकः / केशमुष्टिर्निम्बरको रम्यकः क्षीब एव च // 10 ] इति / एतस्य लोके 'बकायणि' इति प्रसिद्धिः // 138 // पीलो स्रंसी सहस्राङ्गी शीत: करभवल्लभः / गुलमारिगुंडफलश्च पीयते माधुर्यात् पीलुः, “पीङः कित्" [हैमोणादिसू० 821] इति लुः; 15, पीड्यते इति वा, "केवयु भुरण्यु-" [हैमोणादिसू० 746 ] इति उप्रत्यये निपात्यते, पुंल्लिङ्गः, तत्र / 'संसूङ् प्रमादे" स्रंसते संसयते वेत्येवंशीलः स्रंसी, "अजातेः शीले" [ सिद्ध 0 5. 1. 154] इति णिन् / सहस्रमङ्गानि सन्त्यस्य सहस्राङ्गी / शीतफलैकदेशः शीतः, शीतलवीर्यत्वाद्वा / करभाणां वल्लभः करभवल्लभः। गुल्मस्य अरिः गुल्मारिः। गुडवन्मधुराणि फलान्यस्य गुडफलः। आह च- 20 . पीलुः शीतफलः उसी धारी गुडफलोऽपि च / विरेचनफल: शाखी श्यामः करभवल्लभः // ] इति / पीलुनामानि / लोके 'पीलू' 'वेणु' इति वा प्रसिद्धिः / तस्मिंस्तु गिरिसम्भवे // 139 // 1 निम्बकश्च कार्मुको नि० // 2 वृक्षोऽक्षि deg नि०॥ 3 deg साङ्गः शीतः नि० //