SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 76 ] सटीके निघण्टुशेष [प्रलो० १३६अरिष्टकस्तु मङ्गल्यः कृष्णबीजोऽर्थसाधनः / रक्षाबीजः शीतफेनः फेनिलो गर्भपातनः // [ ] इति / अरिष्टकनामानि / लोके 'अरीठा' इति प्रसिद्धिः / निम्बे तु सर्वतोभद्रः पारिभद्रः सुतिक्तकः // 136 // पिचुमन्दो यवनेष्टः शक्रेष्टः शुकमालकः / अरिष्टो हिगुनिर्यासो नेता नियमनोऽपि च // 137 // नयति रोगान् उपशमं निम्बः, "डी-नी-बन्दि-" [हैमोणादिसू० 325] इति डिदिम्बः; निम्ब्यते-सिच्यते वा, तत्र / सर्वतो भद्रमस्मात् सर्वतोभद्रः / पारि10 निष्ठां प्राप्तं भद्रमस्य पारिभद्रः। सुतरां तिक्तः सुतिक्तः, के सुतिक्तकः // 136 // पिचुं-तूलं मन्दयति पिचुमन्दः। “अरोमशत्वात् , “पिचुमर्दः" इत्येके / “यवनानामिष्टो यवनेष्टः" इति सौश्रुतः। शक्रस्य इष्टः शक्रष्टः / शुकैर्माल्यते वेष्टयते शुकमालकः / चन्द्रनन्दनस्तु शुकमालमाह / एतस्यैकदेशे मालकोऽपि / “रिष हिंसायां" न रिष्यते अरिष्टः। हिङ्गुगन्धिनिर्यासोऽस्य हिगुनिर्यासः। 15 "हिङ्गुनिर्यासशब्दोऽयं निम्बे हिङ्गुरसेऽपि च / " इति शाश्वतः [श्लोक० 373 ] इति / नयति रोगानुपशममिति नेता। नियम्यन्ते रोगा अनेन नियमनः, "करणा-ऽऽधारे" [ सिद्ध 0 5.3. 129] इत्यनट् / आह च निम्बो नियमनो नेता पिचुमन्दः सुतिक्तकः / अरिष्टः सर्वतोभद्रः सुभद्रः पारिभद्रकः // ] इति / एतस्य लोके 'नींब' इति प्रसिद्धिः // 137 // 1 शुकेष्टः नि०॥ 2 “पिचुमन्दः; अरोगकृत्त्वाद् अपिचमन्त्येनमिति वा "कुसुद-" [हैमोणादिसू० 244] इति निपात्यते” इत्यभिधानचिन्तामणिस्वोपज्ञटीकायाम् // 3 एके अमरादयः / तथाहि-"अरिष्टः सर्वतोभद्र-हिङ्गुनिर्यास-मालकाः / पिचुमर्दश्च निम्बे" [अमर० का० 2 वर्ग 4 लो० 62] इति // . 3
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy