________________ प्रथमो वृक्षकाण्डः। [75 _ “भल्लि परिभाषण-हिंसा-दानेषु" भल्लते. भल्लातकः, “चण्डि-भल्लिभ्यामातकः” हैमोणादिसू० 82] इत्यातकः / “भल्ल इव अतति-वृणोति भल्लातकः" इत्यमरे [का० 2 वग 4 श्लोक 42 ] त्रिलिङ्गः, तत्र / विशेषेण ईरयति वीरः, स चासौ तरुश्च वीरतरुः ; वीराणां तरुरिति वा, दुःशकत्वात् / अरूंषिस्फोटैर्ऋणान् करोति अरुष्कः, “क्वचित्" [सिद्ध 0 5.1.171] इति डः, "सङ्ख्या-ऽहर्दिवा-विभा-निशा-” [सिद्ध 0 5.1.102] इति टे प्रत्यये अरुष्करः, उभयत्र “समासेऽसमस्तस्य" [सिद्ध 0 2.3.13.] इति षत्वम् / “वणण् गात्रविचूर्णने" व्रणयति व्रणः, अच् / भूतैर्निवृत्तो भौतिकः, “निवृत्ते" [सिद्ध 0 6.4.105] इतीकण् / अत एव भूतेभ्यो रोहति भूतरुट् , किप् / भूरिः-प्रचुरः स्नेहोऽस्य भूरिस्नेहः / शोफं करोति शोफकरः / धनुरिव धनुः, वक्रत्वात् ; धन्यते वा 10 धनुः, "भृ-मृ-तृ-त्सरि-" हैमोणादिसू० 716] इत्युः // 134 // .. अग्निवन्मुखमस्या दाहकत्वाद् अग्निमुखी / बहूनि पत्राण्यस्य बहुपत्रः / भल्लीव भल्ली भेदकत्वात् ; “भल्लि परिभाषणादौ” अचि प्रत्यये ङ्यां च भल्ली। 'सूर्या-ऽग्निसंज्ञकः' इति सूर्यसंज्ञः, तापकत्वात् ; अग्निसंज्ञः, दाहकत्वात् / एवमन्येऽपि / आह च भल्लातकः स्मृतोऽरुष्को दहनस्तपनोऽग्निकः / अरुष्करो वीरतरुभल्ली चाग्निमुखी धनुः // [ ] इति / भल्लातकनामानि / लोके 'भीलामा' इति प्रसिद्धिः / अरिष्टे स्यात् कृष्णबीजो रक्षाबीजोऽर्थसाधनः // 135 // 20 शुभनामा शीतफेनः फेनिलो गर्भपातनः / कृष्णबीजः / रक्षाकारि बीजमस्य रक्षाबीजः / अर्थ साधयति अर्थ शुभस्य नामास्य शुभनामा / शीताः फेनाः अस्य शीतफेनः / फेनाः 35 सन्त्यस्य फेनिलः, “प्रज्ञा-पर्णोदक-फेनाल्लेलौ” [सिद्ध 0 7.2.22] इति इलः प्रत्ययः / गर्भ पातयति गर्भपातनः / यदाह चन्द्रः 1 "वीरवृक्षोऽरुष्करोऽग्निमुखी भल्लातकी त्रिवु // 42 // " इत्यमरे का० 2 वर्ग 4 // 2 कृष्णवर्णो रक्तबीजो° नि० // 3 पीतफेनः नि०॥