SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ 74] सटीके निघण्टुशेषे - [प्रलो० १३३श्वेतानि पुष्पाण्यस्य श्वेतपुष्पः / श्वेतानि फलान्यस्य श्वेतफलः / “तमूच् काङ्क्षायाम्" ताम्यति तमालः, “ऋ-कृ-मृ-वृ-तनि-तमि-' हैमोणादिसू० 475] इत्यालः, [ पुं-क्लीबलिङ्गः ] / मारुतं-वायुमपहन्ति मारुतापहः / शीधोः वृक्षः शीधुक्षः। श्वेतश्चासौ वृक्षश्च श्वेतवृक्षः / सेतुमत्त्वात् सेतुः, पर्यन्ते रक्षाहेतुत्वात् ; “पिंगट् , बन्धने'' सिनोति वा सेतुः, “कृ-सि-कमि" [ हैमोणादिसू० 773] इति तुन् / अश्मरिका-मूत्रबन्धनं तस्या रिपुः अश्मरिकारिपुः, अश्मरीहरत्वात् / आह च वरुणः श्वेतपुष्पश्च तिक्तशाकः कुमारकः / सेतुद्रुमः शीधुवृक्षस्तमालो मारुतापहः // ] इति / 10 वरुणनामानि / लोकेऽपि 'वरुणा' इति प्रसिद्धिः // 132 // अकोठे स्यात् पीतसारो दीर्घकीलो निकोचकः / अकोल्लकस्ताम्रफलो रेचको गन्धपुष्पकः // 133 // अङ्कयतेकीलकैलक्ष्यते अकोठः, “पष्टैधिठादयः" [हैमोणादिसू० 166] इति ठे निपात्यते, तत्र / पीतः सारः-मज्जाऽस्य पीतसारः / दीर्घा कीला अस्य 15 दीर्घकीलः / "कुंचच कौटिल्या-ऽल्पीभावयोः" निकुञ्च्यते अस्मात् कण्टकित्वाद् निकोचकः, णके पृषोदरादित्वात् साधुः / अङ्कयते - कीलकैलक्ष्यते अकोल्लः, “पिञ्छोल-कल्लोलं-" [हैमोणादिसू० 495 ] इत्योले निपात्यते, स्वार्थिके के अङ्कोल्लकः / प्राकृतेऽपि अङ्कोल्लः / ताम्राणि फलान्यस्य ताम्रफलः / रेचको विरेचकत्वात् / गन्धयुक्तानि पुष्पाण्यस्य गन्धपुष्पः, स्वार्थिके के गन्धपुष्पकः / आह च-- अङ्कोठोऽङ्कोल्लको रेची निर्दिष्टो दीर्घकीलकः / पीतसारस्ताम्रफलो गन्धपुष्पो निकोचकः // ] इति / अकोठनामानि / लोके ‘आंकुलु' इति प्रसिद्धिः // 133 // भल्लातके वीरतरुररुष्कोऽरुष्करो व्रणः / भौतिको भूतरुड् भूरिस्नेहः शोफकरो धनुः // 134 // अग्निमुखी बहुपत्रो भल्ली सूर्या-ऽग्निसंज्ञकः / 35
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy