________________ 129] प्रथमो वृक्षकाण्डः। [71 सूर्यस्य पुत्रः सूर्यपुत्रः / “कर्क हासे” सौत्रोऽयम् , कर्कति कर्कटः, "दिव्यवि" गन्धः। विषमुदरेऽस्य विषोदरः। मत्स्यान्तकं फलमस्य मत्स्यान्तकफलः / राज्ञः पुत्रो राजपुत्रः, के राजपुत्रकः / कर्फ वर्धयति कफवर्धनः / आह च मदनः शल्यको राठः पिण्डी पिण्डीतकः फलः / तस्करः करहाटश्च छर्दनो विषपुष्पकः // ] इति / मदननामानि / लोकेऽस्य ‘मयणहल' इति प्रसिद्धिः // 127 // कुब्जके कामुकः श्यामसारः फुल्लो निमिद्रुमः / "कुङ् शब्दे" कवते कुब्जः, “कुवः कुब्-कुनौ च" [ हैमोणादिसू० 129] 11) इति जक्प्रत्ययो अस्य च कुब् इत्यादेशः, स्वार्थिके के कुब्जकः, तत्र / कमनशील: कामुकः, "श-कम-" [ सिद्ध० 5.2.40 ] इत्युकण् / श्यामः सारः-मज्जाऽस्य श्यामसारः / फुल्लति-विकसति फुल्लः। नमतीव निमिः, “क्रमि-तमि-स्तम्भेरिच्च नमेस्तु वा” [ हैमोणादिसू० 613] इति किदिः प्रत्ययोऽकारस्य च इकारः, स चासौ द्रुमश्च निमिद्रुमः / कुब्जकनामानि / लोके 'कुबउ' इति प्रसिद्धिः। 15 निचुले तु नदीकान्तोऽम्बुजो हिजल इजलः // 128 // गन्धपुष्पो गुच्छफलोऽम्बुजातः कच्छपाल्यपि / "णिजॅकी शौचे च” चकारात् पोषणे, नेनेक्ति निचुलः, “कुमुल-तुमुल-निचुल-" [ हैमोणादिसू० 487 ] इत्युले निपात्यते; निचुल्यते अम्बुनेति वा, “नाम्युपान्त्य-" [सिद्ध 0 5.1.54 ] इति कः, तत्र / नद्याः कान्तो नदीकान्तः। अम्बुनि 20 जातो अम्बुजः / हिनोति हिज्जलः, एति इज्जलः, उभावपि "मुरलोरल-" हैमोणादिसू० 474 ] इत्यले निपात्यते / “हितजलापभ्रंशो हिज्जलः” इति क्षीरस्वामी, जलवेतसविशेषत्वादस्य // 128 // गन्धयुक्तं पुष्पमस्य गन्धपुष्पः / गुच्छाकारं फलमस्य गुच्छफलः। अम्बुनि जायते अम्बुजातः / कच्छं पालयति कच्छपाली / आह च 1 °फलोऽनुवाकः कच्छकोल्यपि नि० //