________________ सटीके निघण्टुशेषे [प्रलो० १२९इज्जलो हिज्जलो गुच्छफलः स्यात् कच्छकेतिका / ] इति / - एतस्य लोके 'इजर' इति प्रसिद्धिः / वेतसे विदुलः शीतो नदीकूलप्रियो रथः // 129 // . अभ्रपुष्पः पत्रमाली वानीरो वजुलोऽपि च / ___“वींक् प्रजनादिषु' वैति-अम्भोऽनुवर्तते वेतसः, “तसः” [हैमोणादिसू० 580] इति तसः प्रत्ययः; "तसू दसूच् उपक्षये" वितस्यते वा पृषोदरादित्वात् साधुः, पुं-स्त्रीलिङ्गः, तत्र / “विदु अवयवे" विन्दति विदुलः, 'स्था वकि-" [हैमोणादिसू० 486 ] इत्युलो न लुक् च; "दुलण् क्षेपे" विदोल्यते वेगेनेति वा, 10 'नाम्युपान्त्य-" [ सिद्ध० 5.1.54 ] इति कः / शीतोऽनुष्णवीर्येण दाहशमनात् / नदीकूल प्रियमस्य नदीकूलप्रियः / रमन्तेऽस्मिन् रथः, "नी-नू-रमि-" [ हैमोणादिसू० 227 ] इति कित् थः // 129 // अभ्राणीव पुष्पाण्यस्य अभ्रपुष्पः। पत्राणि मलते धारयतीत्येवंशीलः पत्रमाली / वनति-भजत्यम्बु वानीरः, वन्यते वा, वनि-वपिभ्यां “णित् [ हैमो15 णादिसू० 421 ] इति णिद् ईरः / “वज गतौ" वजति वजुलः, “कुमुलतुमुल-" [ हैमोणादिसू० 487 ] इत्युले निपात्यते / आह च अथ वेतसे // रथा-ऽभ्रपुष्प-विदुल-शीत-वानीर-वञ्जुलाः / [अमर० का० 2 वर्ग 4 श्लो० 29-30 ] इति / वेतसनामानि / स्यादम्बुवेतसे भीरु देयी बालभीरुकः // 130 // विदुलो मञ्जरी नम्रः परिव्याधो निकुञ्जकः / ___'अम्बुवेतसे' जलवेतसे बिभेतीत्येवंशीलो भीरुः, “भियो रु-रुक-लुकम्" [सिद्ध 0 / 5.2.76 ] इति रुः / नद्यां भवा नादेयी, "नद्यादेरेयण्" [ सिद्ध 0 6.3.2 ] 25 इत्येयण् / बाल इव भीरुकः बालभीरुकः // 130 //