SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 70] सटीके निघण्टुशेषे [प्रलो० १२५साऽन्या तु काकजम्बू: कुजम्बुका / उशीरपत्रा नादेयी वैदेशी काकवल्लभा // 125 / / 'तुः' पुनरर्थे / 'सा' जम्बूरन्या काकस्य जम्बूः काकजम्बूः / कुत्सिता जम्बूः कुजम्बूः, स्वार्थिके के कुजम्बुका, “ड्यादीदूतः के" [सिद्ध 0 2. 4. 104] इति हस्वः / उशीरस्येव पत्राण्यस्या उशीरपत्रा / नादेयी नदीजाता / विदेशे भवा वैदेशी / काकस्य वल्लभा काकवल्लभा / आह चकाकजम्बूर्मेघवर्णा नादेयी विशदोऽल्पकः / ] इति / तस्या विशेषोऽयम् // 125 // मंदने श्वसनो राठः शल्यको विषनाशनः / करहाटो मरुबकः पिण्डी पिण्डीतकः फलः // 126 // सूर्यपुत्रः कर्कटको विषगन्धो विषोदरः / / मत्स्यान्तकफलो राजपुत्रकः कफवर्धनः // 127 // मदधातुर्हर्ष-ग्लपनार्थो घटादिः, मदयति मदनः, नन्द्यादित्वादनः, तत्र / 15 “[अन] श्वसक् प्राणने" श्वसत्यनेन श्वसनः, “य्वसि-रसि-' हैमोणादिसू० 269] इत्यादिशब्दाद् अनः / राति राठः, “पष्टैधिठादयः” [ हैमोणादिसू० 166] इति ठे निपात्यते / “शल्यमस्यास्ति इति शल्यः" इति क्षीरस्वामी ; “शल गतौ" शलति वा “स्था-छा-मा-" हैमोणादिसू० 357] इति यः, स्वार्थिके के शल्यकः / विषं नाशयति विषनाशनः / करं हन्ति दुःस्पर्शत्वात् करहाटः, "कपट-कीकटा2) दयः" हैमोणादिसू० 144] इति अटे निपात्यते; "हय हर्य क्लान्तौ च” चका राद् गतौ, करं हयतीति वा कर्मण्यण / म्रियन्ते अनेन विषपुष्पत्वादिति मरुबकः, मा रौति वा, "कीचक-पेचक-" हैमोणादिसू० 33] इत्यके निपात्यते; मरौ बक इव सीदतीति वा / पिण्डमस्यास्ति पिण्डी / पिण्डीमितः-प्राप्तः पिण्डीतः, के पिण्डीतकः, पिण्ड्यते वा “ह रुहि-पिण्डिभ्य ईतकः" हैमोणादिसू० 79] 25 इति “पिडुङ् सङ्घाते' इत्यस्माद् ईतकः प्रत्ययः / फलति फलः फलमस्यास्ति वा. अभ्रादित्वादः // 126 // 1. मदने छर्दनो राठः नि० // 2. त्र-कर्कटको नि० //
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy