SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ 125] प्रथमो वृक्षकाण्डः। [ 69 . घनः स्कन्धोऽस्य घनस्कन्धः / कोशे–मध्येऽम्बु अस्य कोशाम्बुः / सुतरां रक्तः सुरक्तः, के सुरक्तकः // 123 // "टकुण् बन्धने" टङ्कयते टङ्कः, पुं-क्लीबलिङ्गः / यद् गौड: जवायां स्त्री पुमान् खड्गकोशे पाषाणदारणे / खनित्रे टङ्कणे नीलकपित्थे टङ्कमस्त्रियाम् // ] इति / नीलश्चासौ कपित्थश्च नीलकपित्थः / 'अन्यः' अपरः राज्ञः पुत्रो राजपुत्रः / एवं नृपात्मजः। आह च क्षुद्राम्र उक्तकोशश्च लाक्षावृक्षः सुरक्तकः / जतुवृक्षो घनस्कन्धः कृमिवृक्षः सुकोशकः // 10 10 राजाम्रातक आम्लातो मन्मथोद्भवनस्तथा / टको नीलकपित्थोऽन्यो राजपुत्रो नृपात्मजः // ] इति / एतस्य लोके 'राजाम्र' इति प्रसिद्धिः / जम्ब्वां महाफला राजजम्बूर्नीलाम्धुजच्छदा // 124 // 15 सुगन्धिपत्रा जायते अस्यां जम्बूः, “कमि-जनिभ्यां बूः" [ हैमोणादिसू०८४७] इति बूः, नीलाम्बुजमिव च्छदान्यस्याः नीलाम्बुजच्छदा // 124 // सुगन्धीनि पत्राण्यस्याः सुगन्धिपत्रा / यदाह 20 जम्बूः सुरभिपत्रा च राजजम्बूमहाफा / सूक्ष्मपत्रा क्षुद्रजम्बू देयी भूमिजम्बुका // ] इति / "सूक्ष्मपत्राद्याश्चत्वारो नागरङ्गार्थाः' इति गौडः / जम्बूनामानि / लोके 'जांबू' इति प्रसिद्धिः / 1. °म्बुकच्छदा नि० // 25
SR No.032753
Book TitleNighantu Shesh
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages414
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy