________________ 68] सटीके निघण्टुशेषे [ श्लो० १२१आने रसालो माकन्दः कामाङ्गः पिकबान्धवः / वनपुष्पोत्सवचूतः परपुष्टमदोत्सवः // 121 // मधुदूतो मधुफलः सुफलो मदिरासखः / घसन्तपादपः 5 अम्यते-अभिलष्यते आम्रः, “चि-जि-शु-सि-मि-तम्यमिः" हैमोणादिसू० 392] इति रो दीर्घश्च, तत्र / रसं मलति-दधाति रसालः / “कदुङ्क्रदुङ् क्लदुङ् वैक्लव्ये" मा कन्दते माकन्दः, अजन्तः / कामस्य अङ्गः कामाङ्गः। पिकानां बान्धवः पिकबान्धवः / वने पुष्पैरुत्सवोऽस्माद् वनपुष्पोत्सवः। श्चोतति •रसं चूतः, "चूष पाने, चूष्यत इति [ चूतः 7" इति श्रीभोज उवाच, "पुत-पित्त-" [हैमोणादिसू० 204 ] इति 10 ते निपात्यते / परपुष्टस्य मदोत्सवावस्मात् परपुष्टमदोत्सवः // 121 // मधोः–वसन्तस्य दूत इव मधुदतः। मधूनि-मृष्टानि फलान्यस्य मधुफलः / शोभनानि फलान्यस्य सुफलः / मदिरायाः सखा इव मदिरासखः, "राजन्सखेः' [सिद्ध 0 7.3.106] इत्यट् समासान्तः। वसन्तस्य पादपो वसन्त पादपः। आह च15 - आम्रचूतो रसालश्च स चेष्टो मदिरासखः / कामाङ्गः सहकारश्च परपुष्टमदोत्सवः // ] इति / एतस्य लोके 'आंबउ' इति प्रसिद्धिः / असौ तु सहकारोऽतिसौरभः // 122 // 20 'तु' पुनः ‘असौ' आम्रः अतिसौरभः सहकारयति-मेलयति स्त्री-पुंसौ सहकारः, सुरासखत्वाद्वा, उच्यते इति शेषः // 122 // क्षुद्राने स्यात् कृमितरुाक्षावृक्षो जतुद्रुमः / सुकोशको घनस्कन्धः कोशाम्बुश्च सुरक्तकः // 123 // टङ्को नीलकपित्थोऽन्यो राजपुत्रो नृपात्मजः / 25 क्षुद्रश्चासौ आम्रश्च क्षुद्राम्रः, तत्र / कृमीणां तरुः कृमितरुः / लाक्षावर्णो वृक्षो लाक्षावृक्षः। एवं जतुद्रुमः / शोभनः कोशोऽस्य सुकोशः, के सुकोशकः / 1 °दोद्भवः नि० // 2 केशाम्बुश्च सुरक्तसः नि० //