________________ गद्यसंग्रहः न्यायदर्शने वात्स्यायनभाष्यात् ज्ञानस्य प्रामाण्यं प्रवृत्तिसामर्थ्यादनुमेयम्, ज्ञानस्यार्थगोचरत्वे प्रमाता प्रमाणं, प्रमेयं, प्रमितिरितिविद्यासु अर्थतत्त्वं परिसमाप्यते, सद् असद् द्विविधं वस्तु, उभयमपि प्रमाणवेद्यम् / प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम् / प्रमाणमन्तरेण नार्थप्रतिपत्तिः, नार्थप्रतिपत्तिमन्तरेण प्रवृत्तिसामर्थ्यम्।प्रमाणेन खल्वयं ज्ञाताऽर्थमुपलभ्य तमर्थमभीप्सति जिहासति वा। तस्येप्साजिहासाप्रयुक्तस्य समीहा प्रवृत्तिरित्युच्यते / सामर्थ्यं पुनरस्याः फलेनाऽभिसम्बन्धः / समीहमानस्तमर्थमभीप्सन् जिहासन् वा तमर्थमाप्नोति जहाति वा। अर्थस्तु सुखं सुखहेतुश्च, दु:खं दुःखहेतुश्च। सोऽयं प्रमाणार्थोऽपरिसङ्ख्येयः, प्राणभृद्भेदस्याऽपरिसङ्ख्येयत्वात् / अर्थवति च प्रमाणे प्रमाता प्रमेयं प्रमितिरित्यर्थवन्ति भवन्ति / कस्मात् ? अन्यतमापाये अर्थस्यानुपपत्तेः। तत्र यस्येप्साजिहासाप्रयुक्तस्य प्रवृत्तिः स प्रमाता, स येनाऽर्थं प्रमिणोति तत्प्रमाणं, योऽर्थः प्रमीयते तत् प्रमेयं, यत् अर्थविज्ञानं सा प्रमितिः, चतसृषु चैवंविधास्वर्थतत्त्वं परिसमाप्यते / / किं पुनस्तत्त्वम् ? सतश्च सद्भावोऽसतश्चाऽसद्भावः / सत्सदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति / असच्चाऽसदिति गृह्यमाणं यथाभूतमविपरीतं तत्त्वं भवति / __कथमुत्तरस्य प्रमाणेनोपलब्धिरिति? सत्युपलभ्यमाने तदनुपलब्धेः प्रदीपवत् / यथा दर्शकेन दीपेन दृश्ये गृह्यमाणे तदिव यन्न गृह्यते, तन्नास्ति यद्यभविष्यदिदमिव व्यज्ञास्यत, विज्ञानाभावान्नास्तीति (एवं प्रमाणेन सति गृह्यमाणे तदिव यन्न गृह्यते, तन्नास्ति / यद्यभविष्यदिदमिव व्यज्ञास्यत, विज्ञानाभावान्नास्तीति)। तदेवं सतः प्रकाशकं प्रमाणमसदपि प्रकाशयतीति / तत्राऽऽत्मा तावत्प्रत्यक्षतो न गृह्यते / स किमाप्तोपदेशमात्रादेव प्रतिपद्यत इति नेत्युच्यते / अनुमानाच्च प्रतिपत्तव्य इति / कथम् ?