________________ गद्यसंग्रहः अहमित्यवमर्शो द्विधा-शुद्धो मायीयश्च, तत्र शुद्धो यः संविन्मात्रे विश्वाभिन्ने विश्वच्छायाच्छुरितस्वच्छात्मनि वा। अशुद्धस्तु वेद्यरूपे शरीरादौ। तत्र शुद्धेऽहंप्रत्यवमर्श प्रतियोगी न कश्चिदपोहि तव्यः संभवति-घटादेरपि प्रकाशसारत्वेनाप्रतियोगित्वेनानपोह्यत्वात्, इत्यपोह्यत्वाभावे कथं तत्र विकल्परूपता।अशुद्धस्तु वेद्यरूपेशरीरादौ अन्यस्माद् देहादेघटादेश्च व्यवच्छेदेन भवन् विकल्प एव-इति वाक्यार्थः। अक्षरार्थस्तु-चित्तत्वं प्रकाशमात्ररूपं हित्वा सदप्यपहस्तनया अप्रधानीकृत्य भिन्ने देहादावहमेव देहादिः नीलादौ प्रमेये प्रमाता-इत्यभिमानेन “योऽहं स्थूल" इत्यादिविमर्शः स विकल्प एव, न तु शुद्धं प्रत्यवमर्शमात्रम्। अत्र हेतु:-परो द्वितीयो देहादिर्घटादिश्च यः प्रतियोगी तुल्यकक्ष्योऽन्योन्यपरिहाराच्च विरुद्धस्तस्य योऽवभास:समारोपणलक्षणः, तस्माद्यतोऽसौ तन्निषेधानुप्राणितोऽहमित्यवमर्शो जातः, "अहं स्थूलो, न कृशो, न घटादिः" इति, शुद्धप्रकाशरूपस्य अपहस्तनमेव देहादेर्भेदे हेतुः, तदपहस्तेन तु परमेश्वरस्य स्वात्मप्रच्छादनेच्छारूपाभेदाप्रकाशनं भ्रान्तिरूपंप्रति स्वातन्त्र्यरूपा मायाशक्तिहेतुः, चिद्रूपस्य चापहस्तनं देहादेरेव अत्यन्तवेद्यभावस्य भिन्नस्यैव उपपत्तिशून्यतयैव प्रमातृताभिमानः। तथा च देहाभिमानभूमिकायां स्थिताश्चार्वाकाः "चैतन्यविशिष्टः कायः पुरुषः" इति कायमेव प्राधान्येनाहुः-स्त्रीबालमूर्खाणां तथाभिमानात्। ततोऽपि विवेकवन्तः पाकजोत्पत्तिपरिणामादिबलादस्थिरं शरीरं मन्वानाः प्राणशक्तिसमधिष्ठानेन च विना विकारशतावेशं शरीरस्य पश्यन्तो बुभुक्षापिपासायोगयोग्यं प्राणमेवात्मानं केचन श्रुत्यन्तविदो मन्यन्ते। ततोऽपि समधिकविवेकभाजः प्राणस्यापि अनित्यत्वादनुसंधानयोग्यतामपश्यन्तो ज्ञानसुखाद्याश्रयभूतां बुद्धिमेव काणादप्रभृतय आत्मानमाहुः। अपरे तु तस्य अपि योगिदशायां वेद्यभावादपरत्वं मन्यमानाः अंसवेद्यपर्वरूपं यन्न किंचिद्रूपं सकलवेद्यराशिविनिर्मुक्तं शून्यत्वान्नभस्तुल्यं न तु महाभूताकाशस्वभावंप्रमातृतत्वं शून्यब्रह्मवादिनः सांख्यप्रभृतय आहुः। तस्मिन्नपि वेद्ये शून्यान्तरं तत्रापि शून्यान्तरम् इति यावद् भेदः तावत्कल्पना न त्रुट्यति, तदर्थमाह "कल्पिते" इति। न चानवस्था परमार्थप्रकाशबलेन यतः सर्वस्य प्रकाशो न तु देहादिवशात्, तथात्वाभिमानमात्रं-देहादिः प्रमातेति, संकोचमात्ररूपं चित्तत्वं शून्यं भूतलं, यथा घटाभावः, संकोच:-अपरवेद्यांशच्छायाच्छुरितं तु चित्तत्त्वमेव बुद्धिप्राणदेहादि