________________ आचार्यबदरीनाथशुक्लप्रणीतनिबन्धात् 179 देहात्मवादमाक्षेप्तुकामः कश्चिदेवं ब्रूते यत् देहमनोभ्यां जीवात्मनो निराकरणप्रयास:देहमनसोरुभयोरात्मत्वाभ्युपगमे पर्यवस्यति।नचैवंस्वीकर्तुमर्हम्, देहस्यानित्यतया मनसश्च नित्यतया आत्मनि विरुद्धयोः नित्यत्वानित्यत्वयोः समावेशप्रसङ्गात्। 'कदाचिदहं नित्यः', 'कदाचिदहं नश्वर' इत्यनुभवविरुद्धस्य प्रतीतिभेदस्य प्रसङ्गाच्च परमिदं वचनं न चारु, देहात्मवादे गौतमेन "इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्गम्' इति सूत्रेण आत्मलिङ्गतया उक्तानामिच्छादिगुणानां देहात्मवादे देह एव स्वीकारेण तत्रैव आत्मत्वस्य मनसि चतदाश्रयत्वमस्वीकृत्य धर्माधर्मभावनामात्राभ्युपगमेन तदुपकरणत्वस्य स्वीकृत्य देहमनोभ्यां जीवात्मनो निराकरणप्रयासस्य देहमनसोरुभयोरात्मत्वाभ्युपगमपर्यवसायिता बुद्धरनवधानमूलकत्वात्। मनसोऽणुपरिमाणतया तस्य शरीरव्यापित्वाभावेनानखशिखान्तं समग्रं शरीरं व्याप्य उत्पत्तिमत्त्वेनानुभूयमानायाः बुद्धेः समग्रशरीरव्यापिनः अतिरिक्तात्मनोऽस्वीकारे देहात्मवादे उपपत्तिर्न भवितुमर्हतीति शङ्काऽपि नोचिता। अतिरिक्तात्मवादे आत्ममनस्संयोगस्य एकदा शरीरस्य कस्मिंश्चित् मनस्सम्मिते भाग एव सत्वेऽपि यथा समग्रंशरीरं व्याप्य उत्पत्तिमत्तयाऽनुभूयमाना बुद्धिरुपपद्यते। तथैव देहात्मवादेऽपि तदुपपत्तिसंभवे बाधकाभावात्। आपामरसाधारणानुभवानुसारं मनः अन्तरिन्द्रियम्। 'मनसा करोमि', 'मनसा अवधारयामि' इत्यादि प्रतीतिबलेन च करणमात्रमतः करणमात्रस्य तस्यात्मत्वाभ्युपगमःसर्वलोकसिद्धस्यात्मकर्तृत्वाभ्युपगमस्य विरुद्ध इति शङ्काऽपि नोचिता, देहात्मवादे देहमात्रस्यैवात्मत्वं मनसश्च तदुपकरणत्वमात्रम् नात्मत्वमिति पूर्वमेव स्पष्टीकृतत्वात्। मनोगतस्यादृष्टस्य शरीरे चैतन्याधायकत्वस्वीकारे मृतशरीरे नियमतः चैतन्याभावानुपपत्तिः। शरीरमरणोत्तरमपि चैतन्याधायकादृष्टविशिष्टस्य मनसः विद्यमानत्वादिति शङ्का तु न सुलभाऽवकाशा, शरीरस्य मरणकाल एव नियमेन तेन सह मनसः सम्बन्धविनाशस्य अतिरिक्तात्मवादे शरीरस्य मरणकाल एव तेन सह आत्मनो विजातीयसंयोग विनाशस्येव जायमानत्वात्।