________________ 178 गद्यसंग्रहः जानातीति" वाक्यार्थबोधस्यानुपपत्तिप्रसङ्गात्। चैत्रादिपदानां स्वाश्रयत्वस्वाश्रयावच्छेद्यत्वान्यतरसम्बन्देन शरीरगतचैत्रत्वादिजातिप्रवृत्ति निमित्तकत्वाऽभ्युपगमेन शरीरात्मोभयपरतामभ्युपेत्य आख्यातस्य च आश्रयत्वार्थकतां स्वीकृत्यापि 'चैत्रोगच्छति', 'चैत्रो जानाति' इत्येतद् वाक्यार्थबोधः नोपपादयितुं शक्यते। 'चैत्रो न जानातीति' वाक्यार्थबोधस्य सत्त्वेऽपि 'चैत्रो जानातीति' बोधस्याऽऽपत्तिप्रसङ्गात्, प्रथमस्य शरीरमाश्रित्य द्वितीयस्य च आत्मानमाश्रित्य द्वयोरपि युगपदुत्पत्तिसंभवात्। देहात्मवादमाश्रित्य कश्चिदेवमाशङ्कते यत् संस्कारस्य स्वाश्रयसंयोगसम्बन्धेन स्मृतिं प्रति कारणत्वे तेन सम्बन्धेन तस्य शरीरनिष्ठताया इव इन्द्रियनिष्टताया अपि सत्त्वेन इन्द्रियेऽपि स्मृत्युत्पादापत्तिः। इन्द्रियेऽपिस्मृत्याश्रयत्वस्वीकारे ज्ञानाश्रयत्वेन तस्याप्यात्मत्वापत्तिः। परिमियं शङ्का नोचिता, इन्द्रियदेहावयवादिव्यावृत्तेन स्वाश्रयविजातीयसंयोगेनैव संस्कारं प्रत्यनुभवस्य स्मृति प्रति च संस्कारस्य हेतुत्वोपगमेनोक्तापत्त्यसम्भवात्। अत एव घटपटादिष्वपि मनस्संयोगसंभवेन तत्रापि स्मृतेरुत्पत्तेः सम्भाव्यतया तेषामपि आत्मत्वापत्तिरित्यपि नाशङ्कितुं शक्यम्, कारणतावच्छेदकसम्बन्धतयाऽभ्युपगतस्य मनोविजातीयसंयोगस्य तेष्वभावात्। समानकालीनत्वैकज्ञानविषयत्वादीनामपिस्वाश्रयसंयोगसमकक्षतया तत्सम्बन्धैरपि स्मृति प्रति संस्कारस्य हेतुत्वापत्त्या सम्पूर्णस्य जगत एव ज्ञानाश्रयत्वेन आत्मत्वापत्तिशङ्का तु शङ्कितुः दुस्साहसमात्रसूचिका, अतिरिक्तात्मवादे मूर्तद्रव्यमाने आत्मनः संयोगसत्त्वेऽपि तत्समकक्षस्य समानकालीनत्वादिसम्बन्धस्यापि घटादिषु सत्वेऽपि यथा न घटाद्यवच्छेदेन आत्मनि ज्ञानोत्पत्तिः, अपितु तत्तदात्मविजातीयसंयोगाश्रयतत्तदेहावच्छेदेनैव ज्ञानोत्पत्तिर्भवतीति शरीरस्यैव ज्ञानाद्यवच्छेदकत्वं न घटपटादीनाम्, तथैव देहात्मवादे मनस्संयोगस्य तत्तुल्यस्य सम्बन्धान्तरस्य च घटपटादिषु सत्वेऽपि न तत्र स्मृत्याद्युत्पत्तिः। किन्तु संस्काराद्याश्रय मनसो विजातीयसंयोगाश्रये शरीर एव स्मृत्याद्युत्पत्तिः, इति तत्त्वस्य अनायासवेद्यस्य अज्ञानमूलकत्वादुक्तशङ्कायाः।