________________ 180 गद्यसंग्रहः यदि शरीरमात्मा तर्हि 'राहोः शिर' इतिवद् मम शरीरमित्यादिप्रयोगाणां भाक्तत्वेन कथञ्चित् समर्थनेऽपि अहं शरीरमित्येतादृशप्रयोगः कदापि कुतो न प्रवर्तते इत्येष प्रश्नः, दुरुत्तर इति कथनमपि नौचित्यमञ्चति, शब्दप्रयोगस्य शब्दार्थज्ञानाधीनतया अहं शरीरमिति ज्ञानाभावेन तादृशप्रयोगस्य प्रवृत्त्यभावात्। शरीरस्यात्मत्वे तादृसं ज्ञानमेव कुतो न जायते इत्यपि न शङ्कितुं शक्यम्। अहमर्थस्य स्वगतयोग्यगुणाश्रयेणैव ग्राह्यत्वनियमेन 'अहं स्थूलः', 'अहं कृशः', 'अहं सुखी', 'अहं दुःखी' इत्यादिरूपेणैव अहमाकारज्ञानस्य आनुभाविकत्वेन अहं शरीरमित्याकारकज्ञानस्यातिरिक्तात्मवादे अहमात्मेति ज्ञानस्येव अनुदयात्। अतिरिक्तात्मवादेऽपि अहमात्मेत्यनुभवस्य आपामरसाधारण्येन स्वीकरणं न सम्भवति, अन्यथा तस्य विवादविषयत्वानुपपत्तेः। अतएवोक्तम् भाषापरिच्छेदे . विश्वनाथेन- 'अध्यक्षो विशेषगुणयोगत:' - योग्यविशेषगुणस्य ज्ञानसुखादेः सम्बन्धेन आत्मनः प्रत्यक्षत्वं सम्भवति नान्यथा। क्षिप्तविक्षिप्तादिचित्तभूमिषु शरीरावयवेभ्यःसमग्रात् शरीराच्च सर्वानुभवसिद्ध आत्मबुद्धेरपसारः देहात्मवादे समर्थयितुं न शक्य एषापि चिन्ता निराधारा। देहात्मवादेऽपि तादृशीनां चित्तभूमीनां सम्भवेन तन्मूलकस्य उक्तात्मबुद्धेरपसारस्य सम्भवे बाधकाभावात्। अहं वा नवेति न कश्चित् सन्दिग्धे, शरीरमात्मा वा नवेति विचारवन्तो मनीषिणोऽपि संशेरते, यदि शरीरमेवात्मा तदा तन्नात्मत्वसन्देहे कुतो न कस्यापि अहं वा न वेति सन्देह इति प्रश्नोऽपि नोचितः, यतः अतिरिक्तात्मवादे शरीरमनात्मेति निश्चय:देहात्मवादे चशरीरमात्मेति निश्चयः,अतो वादद्वय एवोक्तसन्देह आहार्यः, अहमाकारनिश्चयश्चानाहार्यः, अतिरिक्तात्मवादे देहात्मवादे चोभयत्र समानः। सच अहंवा नवेति संशयस्य विरोधी, अत:शरीरे आहार्यात्मत्वसन्देहेऽपि अहमाकारनिश्चयस्य निर्बाधतया तत्प्रतिबन्धवशान्नोदेतुमर्हति तादृशः संशयः। अत्रायमाशयो यत् अहमिति शब्दस्योच्चारणक व अहमर्थो भवति, अतोऽतिरिक्तात्मवादे अहमिति शब्दप्रयोक्ता अतिरिक्त आत्मा अहमर्थः, देहात्मवादे अहमिति शब्दप्रयोक्ता देहः अहमर्थः। उभयोरेव स्वस्वमतानुसारेण अहमर्थस्य