________________ तत्त्वसंग्रहद्वितीयभागात् 147 पूर्वसजातीयबीजप्रभवत्वाच्च प्रज्ञादेः। न त्वैवं लङ्घनादिरिति पश्चात् प्रतिपादयिष्यते। नापि जन्मान्तरासम्भवः, पूर्वजन्मप्रसरस्य प्रसाधितत्वात्। नापि ताम्रादिकाठिन्यादिवत् पुनरुत्पत्तिसम्भवो दोषाणाम्, तद्विरोधिनैरात्म्यदर्शनस्यात्यन्तसात्म्यमुपगतस्य सदाऽनपायात्। ताम्रादिकाठिन्यस्य हि यो विरोधी वह्निस्तस्य कादाचित्सन्निहितत्वात् काठिन्यादेस्तदभाव एव भवत: पुनस्तदपायादुत्पत्तिर्युक्ता, न त्वेवं मलानाम्।अपायेऽपि वा मार्गस्य भस्मादिभिरनैकान्तान्नावश्यं पुनरुत्पत्तिसम्भवो दोषाणाम्, तथाहिकाष्ठादेरग्निसम्बन्धाद् भस्मसाद्भूतस्य तदपायेऽपि न प्राक्तनरूपानुवृत्तिः, तद्वद् दोषाणामपीत्यनैकान्तः। किञ्च-आगन्तुकतया प्रागप्यसमर्थानां मलानां पश्चात्सात्मीभूतं तन्नैरात्म्यं बाधितुं कुतः शक्तिः। न हि स्वभावो यत्नमन्तरेण निवर्तयितुं शक्यते। न च प्राप्यपरिहर्त्तव्ययोर्वस्तुनोर्गुणदोषदर्शनमन्तरेण प्रेक्षवतां हातुम्, उपादातुं वा प्रयत्नो युक्तः। न च विपक्षस्यात्मनः पुरुषस्य दोषेषु गुणदर्शनम्, प्रतिपक्षे वा दोषदर्शनं सम्भवति, अविपर्यस्तत्वात् / न हि निर्दोष वस्तुविपर्यस्तधियो दुष्टत्वेनोपाददते, नापि दुष्टं गुणवत्त्वेन। न च नैरात्म्यदर्शनस्य कदाचित् दुष्टता, सर्वोपद्रवरहितत्वेन गुणवत्त्वात्। तथाहि-नि:शेषरागादिमलस्यापगमान्न भूतार्थदर्शननिबन्धोपद्रवः। नापि रागादिपर्यवस्थानकृतः कायचित्तपरिदाहोपद्रवोऽस्ति। नापि जन्मप्रतिबद्धो व्याधिजराद्युपद्रवः, जन्महेतोः क्लेशस्याभावात्। नापि साश्रवसुखोपभोगवद् वैरस्योपद्रवः, प्रशमसुखरसस्यैकान्ततयाऽनुद्वेगकरत्वात्। तन्नास्य हानाय यत्नो युक्तः। अपि तु यदि भवेदपरिहाणायैव भवेत्, बुद्धेः प्रकृत्या गुणपक्षपातात्। - नापि दोषोपादानामप्रयत्नः, तेषां सर्वोपद्रवास्पदत्वेन दुष्टत्वात् / तस्मात् सम्भाविनी नैरात्म्यभावना। तस्याश्च प्रकर्षपर्यन्तगमनात् स्फुटप्रतिभासज्ञानफलत्वं दृष्टम्, यथा कामिनीं भावयतः कामातुरस्य। तथाहि तस्य सविभ्रमाः पश्याम्युपगृह इत्येवं वाचः कायव्यापाराश्चाभिप्रायानुरूपाः साक्षात्कारिनिबन्धनाः प्रवर्त्तन्ते। तस्मान्नासिद्धो हेतुः। नाप्यनैकान्तिकः, यतो नैरात्म्यदर्शनस्य भूतार्थविषयत्वेन बलवत्वम्, आत्मदर्शनस्य तु विपर्ययाद् विपर्यय इति भवति विपक्षप्रतिपक्षभावः। रागद्वेषयोरप्यभूतात्मग्रहसंस्पर्शेन प्रवृत्तेन तयोविरुद्धरूपग्रहणनिमित्तौ विपक्षप्रतिपक्षभावः।