________________ 102 गद्यसंग्रहः तदनुगामितां प्रकटयति, विचारमन्तरेणा-व्यवस्थितवेदवाक्यार्थानवधारणान्मीमांसा वेदवाक्यार्थविचारात्मिका वेदाकरस्येतिकर्तव्यतारूपमनुबिभर्तीति विद्यास्थानतां प्रतिपद्यते, तथा च भट्टः धर्मे प्रमीयमाणे तु वेदेन करणात्मना / इतिकर्तव्यताभागं मीमांसा पूरयिष्यति // अतएव सप्तममङ्गमिति न गण्यते मीमांसा प्रत्यासन्नत्वेन वेदैकदेशभूतत्वात्, विचारसहायो हि शब्दःस्वार्थ निरकाझं प्रबोधयितुं क्षमः, न्यायविस्तरस्तु मूलस्तम्भभूतः सर्वविद्यानां वेदप्रामाण्यहेतुत्वात्, वेदेषु हि तार्किकरचितकुतर्कविप्लावितप्रामाण्येषु शिथिलितास्थाः कथमिव बहुवित्तव्ययायासादिसाध्यं वेदार्थानुष्ठानमाद्रियेरन् साधवः, किं वा तदानीं स्वामिनि परिम्नाने तदनुयायिना मीमांसादिविद्यास्थानपरिजनेन कृत्यमिति, तस्मादशेषदुष्टतार्किकोपमर्दद्वारकदृढतरवेदप्रामाण्यप्रत्ययाधायिन्यायोपदेशक्षममक्षपादोपदिष्टमिदंन्यायविस्तराख्यंशास्त्रं प्रतिष्ठाननिबन्धनमिति परं विद्यास्थानम् / ननु वेदप्रामाण्यनिर्णयप्रयोजनश्चेन्न्यायविस्तरः कृतमनेन मीमांसात एव तत्सिद्धः, तत्र ार्थविचारवत्प्रामाण्यविचारोऽपि कृत एव, सत्यम्, स त्वानुषङ्गिकः तत्र मुख्यस्त्वर्थविचार एव, पृथक्प्रस्थाना हीमा विद्याः सा च वाक्यार्थविद्या न प्रमाणविद्येति, न च मीमांसकाः सम्यग् वेदप्रामाण्यरक्षणक्षमां सरणिमवलोकयितुं कुशलाः कुर्तककण्टकनिकरनिरुद्धसञ्चरमार्गाभासपरिभ्रान्ताः खलु ते इति वक्ष्यामः, न हि प्रामाणान्तरसम्वाददायमन्तरेण प्रत्यक्षादीन्यपि प्रमाणभावं भजन्ते किमुत तदधीनवृत्तिरेष शब्दः, शब्दस्य हि समयोपकृतस्य बोधकत्वमात्रं स्वाधीनमर्थ-तथात्वेतरत्वपरिनिश्चये तु पुरुषमुखप्रेक्षित्वमस्यापरिहार्यम्, तस्मादाप्तोक्तत्वादेव शब्दः प्रमाणीभवति नान्यथेत्येतच्चास्मिन्नेव शास्त्रे व्युत्पादयिष्यते। नन्वक्षपादात्पूर्वं कुतो वेदप्रामाण्यनिश्चय आसीत्, अत्यल्पमिदमुच्यते, जैमिनेः पूर्वं केन वेदार्थो व्याख्यातः, पाणिनेः पूर्वं केन पदानि व्युत्पादितानि, पिङ्गलात्पूर्वं केनच्छन्दांसि रचितानि, आदिसर्गात्प्रभृति वेदवदिमा विद्याः प्रवृत्ताः, संक्षेपविस्तरविवक्षया तु तांस्तांस्तत्र कर्तनाचक्षते।