________________ न्यायमञ्जरीतः 103 पद वाक्य-स्वरूप-निरूपण सन्दर्भ स्फोटविषयकविस्तृतिपूर्वकं स्फोटसिद्धान्तस्य तत्प्रतिकुलमालोचनम् | किं पुनरिदं पदं नाम किं च वाक्यमिति, उक्तमत्रवर्णसमूहः पदं पदसमूहो वाक्यमिति। नन्वेतदेव न क्षमन्ते न हि वर्णानां समूहः कश्चिदस्ति वास्तवः, तेन कुतस्तत्समूहः पदं भविष्यति, तदभावाच्च नेतरां पदसमूहो वाक्यमवकल्पते, न च वर्णानां व्यस्तसमस्तविकल्पोपहतत्वेन वाचकत्वमुपपद्यते तस्मादन्य एव स्फोटात्मा शब्दोऽर्थप्रतिपादक इति प्रतिजानीते। नन्वेवमस्तु स्फोटोऽन्य एवार्थप्रतिपादको भवतु का क्षतिर्नैयायिकानाम्, कथं न क्षतिः आप्तप्रणीतत्वेन हि शब्दस्य प्रामाण्यम् तैरुक्तम्, स्फोटस्य च नित्यत्वेन न आप्तप्रणीतत्वमतश्च यस्यानित्यत्वं वर्णात्मनः शब्दस्य साधितं नासावर्थप्रतीतिहेतुरतो न प्रमाणम्, यश्चार्थप्रतीतिहेतुः स्फोटात्मा शब्दस्तस्य नानित्यत्वं न चाप्तप्रणीतत्वमित्यस्थाने नैयायिकाः क्लिष्टा भवेयुः, तस्मादनित्यानां वर्णानामेव वाचकत्वं प्रतिष्ठापनीयं पराकरणीयश्च स्फोट इति। तदुच्यते, गकारादिवर्णावगमे सत्यर्थप्रतीतेर्भावात्तदभावे चाभावात्तेषामेवार्थप्रत्यायनसामर्थ्यम्, ते एव च श्रवणकरणकावगमगोचरतया शब्दव्यपदेशभाज इति न प्रतीत्यनुपारूढः स्फोटो नाम शब्दः कश्चित्प्रत्यक्षानुमानातीतः परिकल्पनीयः। वर्णानामर्थबोधकत्वस्य निराकरणम्: आह कथमेवं भविष्यति दूरापेता इमे मनोरथाः, कुतो वर्णानामर्थप्रत्यायकत्वं ते हि वर्णा गकारादयोऽर्थं प्रतिपादयन्तः समस्ताः प्रतिपादयेयुः व्यस्ता वा, न तावदव्यस्ताः एकैकवर्णाकर्णने सत्यप्यर्थप्रतीतेरनुत्पादात्, सामस्त्यं वर्णानां नास्त्येव, तद्धि सत्तामात्रेण वा स्यात्प्रतीयमानत्वेन वा, नैयायिकपक्षे तावत्सत्तया योगपद्यमविद्यमानम् आशुविनाशितः शब्दस्य दर्शितत्वात्। अथापि मीमांसकमतेन नित्यः शब्द इष्यते, तत्रापि सत्तया यौगपद्यस्य सकलवर्णसाधारणत्वात्केन वर्णसमुदायेन कोऽर्थः प्रत्याय्येतेति नावधार्यते।