________________
॥ सवृत्तिपिण्डनियुक्तिः ॥ तत्थ “गेण्हामि' त्ति पडिसुणमाणे पडिसुणमाणस्स अतिक्कमो होति। तदुवरिं च वेलपडिवालणा पत्तगुग्गाहणा दंडादिगहणोवयोगकरण-संदिसावणं जाव अतिक्कम एव १। ‘पदभेदादि वतिक्कम' इति तओ पदभेद-गमण-घरपवेस-णिसीयणा जाव गहणं ताव वतिक्कम एव २। 'गहिते तइएतरो गिलिए'त्ति गहिए धम्मलाभण-वसहिगमणा-ऽऽलोयण-मंगलादिकढण-संदिसावण-कवलुद्धरणं जाव अतियारो ३। गिलिए पुण अनाचार एवेति ४ गाथार्थः॥२०४॥ किञ्च
__ आणाइणो य दोसा गहणे जं भणियमह इमे ते उ।
आणाभंगऽणवत्था मिच्छत्त विराहणा चेव॥२०५॥ आणादिणो य गाहा। व्याख्या- आज्ञादयस्तु दोषा ग्रहणे आधाकर्मणो यद् भणितं आदिशब्देन, अह इमे ते उ आज्ञाभङ्गः, अनवस्था, मिथ्यात्वं विराधना चैवेति गाथाक्षरार्थः॥२०५॥ अधुना भावार्थमाह
आणं सव्वजिणाणं गेण्हंतो तं अतिक्कमइ लुद्धो।
आणं च अतिक्कंतो कस्साऽऽदेसा कुणइ सेसं॥२०६॥ आणं गाधा। व्याख्या- आज्ञां उपदेशलक्षणां सर्वजिनानां = सर्वतीर्थकराणां गृह्णन् तद् आधाकर्म अतिक्रामति लुब्धः, तद्ग्रहणस्य तैः प्रतिषिद्धत्वात्। ततः किम् ? अत आह- आज्ञां च अतिक्रान्तः सन् कस्यादेशेन करोति शेषमनुष्ठानमिति गाथार्थः॥२०६॥ अधुना अनवस्थामाह
एगेण कयमकजं करेइ तप्पच्चया पुणो अण्णो।
सायाबहुल परंपर वोच्छेदो संजम-तवाणं॥२०७॥ एगेण गाधा। व्याख्या- एकेन कृतमकायं आधाकर्मग्रहणलक्षणं, दृष्ट्रेति शेषः, करोति तत्प्रत्ययात् = तन्निमित्तेन पुनरन्यः कश्चित्। ततश्च साताप्रचुरत्वात् पारम्पर्येण अन्योन्यदर्शनाद् व्यवच्छेदः संयम-तपसोरिति गाथार्थः॥२०७॥ अधुना मिथ्यात्वमाह
जो जहवायं ण कुणइ मिच्छादिट्ठी ततो हु को अण्णो।
वड्इ य मिच्छत्तं परस्स संकं जणेमाणो॥२०८॥ जो जह गाहा। व्याख्या- यः कश्चित् सत्त्वः यथावादं आधाकर्मपरिहारादिलक्षणं न करोति = न आसेवते, मिथ्यादृष्टिस्ततः कोऽन्यः ? प्रशम-संवेग-निर्वेदा-ऽनुकम्पा-ऽऽस्तिक्याऽभिव्यक्तिलक्षणत्वात् सम्यक्त्वस्य। उक्तं च भगवता
"जं मोणंति पासहा तं सम्मति पासहा।
जं सम्मति पासहा तं मोणंति पासहा' [आचा० सू० १/५/३/१६१] इत्यादि। किञ्च वर्द्धयति च मिथ्यात्वं, प्रतिषिद्धत्वाद्, आधाकादि गृह्णन् “अहो ! अन्यथावादिनो
२. म एव पद० जि१। म व पद० जि० ॥ ३. अडकमंतो जे१॥
(टि०) १.पत्र
जी