________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
आहाकम्तरिया असणादी उ चउरो ततियभंगो । आहाकम्म पडुच्चा नियमा सुण्णो चरिमभंगो ॥ १५६ ॥
आहाकम्मंतरिया गाहा । व्याख्या- आधाकर्म्मशब्दान्तरिताः अशनादयश्चत्वारः पदार्थास्तृतीयभङ्गः- नानार्थं एकव्यञ्जनमित्ययम्, इयमत्र भावना अशनमाधाकर्म्म पानादि च । आधाकर्म्म प्रतीत्य, किम् ? "नियमाच्छून्यश्चरमभङ्गः- नानार्थं नानाव्यञ्जनमित्ययमिति गाथार्थः॥१५६॥
इदमेव वस्तु भावयन्नाह
३८
-
इंदत्थं जह सद्दा पुरंदरादी उ णाइवत्तंते ।
अहकम्म-आयहम्मा तह आहं णातिवत्तंते ।। १५७ ॥
इंदत्थं जह सद्दा गाहा। व्याख्या - इन्द्रार्थं यथा शब्दाः सामान्येन पुरन्दरादय नातिवर्त्तन्ते, किम् तर्हि ? स एव इन्द्रः स एव पुरन्दर इत्यादि, अधः कर्मात्मघ्ने उपलक्षणमिदं आत्मकर्मणोऽपि, तथा 'आहं'ति आधाकर्म्म नातिवर्त्तन्ते, तुल्यदोषत्वादिति गाथार्थः ॥ १५७ ॥ अमुमेवार्थं स्पष्टयन्नाह– आहाकम्मेण अहोकरेइ जं हणइ पाणभूयाई ।
जं तं आइयमाणो परकम्मं अंत्तणो कुणइ ॥ १५८ ॥ दारं ।।
आधाकम्मेण गाहा। व्याख्या- आधाकर्म्मणा हेतुभूतेन, किम् ? अधः करोति, आत्मानमिति गम्यते, कस्माद् ? इत्याह- यद् = यस्मात्, हन्ति प्राणभूतानि, तथा यत् तत् गृह्णन् परकर्म्म आत्मनि करोतीति । एवं चत्वार्य्यऽपि तुल्यदोषाणि दर्शितानीति गाथार्थः ॥ १५८ ॥
मूलद्वारगाथायां 'एकार्थिकानी' ति गतम् । अधुना 'कस्ये 'ति विवृण्वन्नाह -
कस्स त्ति पुच्छियम्मी नियमा साहम्मियस्स तं होइ। साहम्मियस्स तम्हा कायव्व परूवणा विहिणा ।। १५९ ॥
कस्स त्ति पुच्छितम्मि गाधा सुत्तसिद्धा ॥१५९॥
साम्प्रतं यदुक्तं 'परूवणं तस्स वोच्छामि'त्ति सेयं प्ररूपणा -
(टि०) १. अत्तकम्मा जे१,२ को० ॥ २. ०त्तए जे२ ॥ ३. आहाकम्मुणा ला० विना ॥। ४. प्राणिनो भूतानि जि१ । प्राणिभूतानि जि० ॥ ५. जम्हा जे१ को० ॥
(वि०टि० ) * आधाकर्म्मरूपं नामाश्रित्य पुनश्चरमो भङ्गो नानार्थानि नानाव्यञ्जनानीत्येवंरूपो नियमाच्छून्य आधाकर्म्म आधाकर्मेत्येवमादिनाम्नां सर्वेषामपि समानव्यञ्जनत्वात् उपलक्षणमेतत्, तेन सर्वाण्यपि नामानि प्रत्येकं चरमभङ्गे न वर्तन्ते, यदा तु कोऽप्यशनविषये आधाकर्मेति नाम प्रयुङ्क्ते पानविषये त्वधः कर्मेति खादिमविषये त्वात्मघ्नमिति स्वादिमविषये त्वात्मकर्मेति तदाऽमूनि नामानि नानार्थानि नानाव्यञ्जनानि चेति चरमोऽपि भङ्गः प्राप्यते । इति मलय० ॥ *. पू. हरिभद्रसूरिमते 'परूवणं तस्स वोच्छामि' इति पाठः स्यात् ।