________________
॥ पिण्डनिरूपणम् ॥ से भिक्खू वा २ गाहावतिकुलं पिंडवातपडियाए (अणु)पविढे समाणे.... 'लभेजा जवोदगं वे (आचा० सूत्र ३७०) त्यादि। अस्य सूचकं 'पिंडपडियादि' त्ति गाथार्थः॥८॥
जस्स पुण पिंडवायट्ठया पविट्ठस्स होदि संपत्ती।
गुलओयणपिंडेहिं तं तदुभयपिंडमाइंसु॥९॥ जस्स पुण गाहा। णिगदसिद्धा, नवरं तं तदुभयपिंडमिति गौण-समयपिण्डं आख्यातवन्तो, अन्वर्थ-समययोगादिति॥९॥
उभयातिरित्तमहवा अण्णंपि ह अस्थि लोइयं णाम।
अत्ताभिप्पायकयं जह सीहग-देवदत्तादी॥१०॥ उभयातिरित्त० गाहा। व्याख्या- 'अथवे'ति प्रकारान्तरप्रदर्शनार्थः, 'उभयातिरिक्तमिति गौणसमयातिरिक्तं लौकिकत्वेनास्ति, आह च- अन्यदप्यस्ति लौकिकं नाम, तत् किम्भूतम् ? इत्यत आह- आत्माऽभिप्रायकृतं = स्वाऽभिप्रायनिवर्तितम्, यथा सिंहक-देवदत्तादीति गाथार्थः॥१०॥
अत्राह- नेदं नियुक्तिगाथायामुपात्तं तत्कथं 'अस्ती'ति गम्यते ? उच्यते, नोपात्तमिति असिद्धम्, वाशब्दाऽपिशब्दप्रयोगात्। तथा चाह भाष्यकारः
गोण्णसमयातिरित्तं इणमण्णं वाऽवि सूइयं णाम।
जह पिंडगो त्ति कीरइ कस्सति णामं मणूसस्स॥११॥ गोण्णसमयातिरित्तं गाहा। व्याख्या- गौण-समयाभ्यां पूर्वोक्तस्वरूपाभ्यामतिरिक्तम्, इदं यदुक्तं वक्ष्यमाणं वा, अन्यद् = अर्थान्तरभूतम्, वाशब्दा-ऽपिशब्दसूचितं नाम = अभिधानम्, प्रकृताऽभिधानापेक्षयैव निदर्शनमुपदर्शयति- यथा पिण्डक इति क्रियते आत्माभिप्रायादेव, कस्यचिन्नाम मनुष्यस्येति गाथार्थः॥११॥ एवमियमपुनरुक्ता, अन्यकर्तृकीति वाऽन्ये। ___आह– सामयिकस्य लौकिकस्य स्वाभिप्रायिकस्य च पारिभाषिकत्वेनाविशेषात् को विशेषो येन भेदेनाभिधीयते ? इत्यत्रोच्यते
तुल्लेऽवि अभिप्पाए समयपसिद्धं न गेण्हए लोगो। ___जं पुण लोगपसिद्धं तं सामइया उवचरंति॥१२॥ तुल्लेऽवि गाहा। व्याख्या- तुल्येऽप्यभिप्राये तन्निबन्धने समयप्रसिद्धं समुद्देशादि न गृणाति लोकः, यत्पुनर्लोकप्रसिद्धं सिङ्घक-पिण्डादि तदधिकृत्य सामयिका उपचरन्ति = सामीप्येन गच्छन्ति, व्यवहरन्तीत्यर्थः । अयं विशेष इति गाथार्थः॥१२॥
__ भणितो नामपिंडो। संपयं ठवणापिंडो भण्णति। तत्थ(वि०टि०) V. अधुना मुद्रितमूलसूत्रादर्शेषु 'जाणेज्जा' इति पाठो लभ्यते॥
3. तन्निबन्धने = पिण्डशब्दादिनिबन्धने इत्यर्थः ।।