________________
२
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
संहिता च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्यातन्त्रस्य षड्विधा ॥ ( ) अन्यैस्त्वभिहितम्– पूर्वं कृत्वा पदच्छेदं समासं तदनन्तरम् ।
समासे तु कृते पश्चादर्थं ब्रूयाद् विचक्षणः ॥ ( ) इति। अन्ये त्वाहुः - व्याख्येयं च विनेयांश्च समाश्रित्य यथा तथा । भावार्थकथनं व्याख्यालक्षणं विदुषां मतम् ॥ ( ) इत्यादि ।
इदं च व्याख्यालक्षणं द्रव्यानुयोगाद्यपेक्षया क्वचित् किञ्चिद् विषयविभागतोऽवसेयमिति। इहाऽपि च यथानुरूपं क्वचित् किञ्चिद् दर्शयिष्याम इति । तत्राऽस्खलितपदोच्चारणं संहिता, प्रतीतैव ।
तथा पिण्डे, उद्गमः, उत्पादना, एषणा, संयोजना, प्रमाणम्, च, अङ्गारः, धूमः, कारणम्, अष्टविधा, पिण्डनिर्युक्तिरिति पदानि ।
=
अधुना पदार्थ उच्यते- तत्र “पिडि सङ्घाते " ( पा० धा० १६६९) इत्यस्य धातोः अच्प्रत्ययान्तस्य 'पिण्ड' इति भवति। तस्मिन् पिण्डेऽधिकृते तद्विषयो वा उद्गमो वक्तव्यः । उद्गमनम् उद्गमः, प्रभवः, प्रसूतिः, आत्मलाभ इत्यनर्थान्तरम्, स चाधाकर्मादिभेदभिन्नः। वक्ष्यति च ' आहाकम्मुद्देसिये' ( गा० १०७) त्यादि । तथोत्पादना वक्तव्या । उत्पादनम् = उत्पादना, धात्र्यादिभिः प्रकारैर्याञ्चेत्यर्थः । वक्ष्यति च ‘धाई-दूति-निमित्ते ' ( गा० ४३८) त्यादि । अनेन गवेषणाया ग्रहणम् । तथा एषणा वक्तव्या। एषणम् = एषणा, ग्रहणकाले शङ्कितादिभिः प्रकारैरन्वेषणमित्यर्थः । वक्ष्यति च 'संकितमक्खिते' ( गा० ५५७) त्यादि । अनेन तु ग्रहणैषणाया ग्रहणमिति । तथा संयोजनादयो वक्तव्या इति । अनेन तु ग्रासैषणायाः परिग्रहः। तत्र संयोजनम् = संयोजना, द्रव्यभावभेदभिन्ना । वक्ष्यति च 'दव्वे भावे संयोजना तू' (गा० ६७२ ) इत्यादि । तथा प्रमाणं कवल - सङ्ख्यालक्षणम् । वक्ष्यति च 'बत्तीसं किर कवले' (गा० ६७८) त्यादि। चशब्दः समुच्चयार्थः । 'अङ्गार' इति चारित्रेन्धनाङ्गारकरणपरिणामोऽङ्गारः। तथा चारित्रेन्धनगतधूमकरणपरिणामस्तु 'धूम' इति । वक्ष्यति च 'तं होइ सइंगालं जं आहारेइ मुच्छिओ संतो' (गा०६९१) इत्यादि । तथा कारणं = निमित्तं वेदनादि । वक्ष्यति च 'वेदण - वेयावच्चे' (गा०६९८) त्यादि । अष्टविधा - पिण्डस्य सर्व्वत्र गतत्वात् व्यापकत्वाद् "भेदेनागणनात् उद्गमादिभेदैरष्टप्रकारा। ‘पिण्डनिर्युक्ति' इति निर्युक्तानां युक्तिः निर्युक्तयुक्तिरिति वाच्ये, युक्तशब्दलपात् 'चन्द्रमुखी देवदत्ते 'ति न्यायान्निर्युक्तिः विप्रकीर्णार्थयोजना, व्याख्येत्यर्थः, पिण्डस्य निर्युक्तिः पिण्डनिर्युक्तिरिति पदार्थः ।
=
(टि०) १. ०मासस्तद० जि१ ॥ २. चला० ॥ ३. ०गान्यपे० जि१ ॥ ४. अचुप्रत्य० ला० ॥ ५. अट्ठविहा जि१ ॥ ६. भेदेनगण० जि१ ॥
(वि०टि०) तुलना - संहिता य पदं चेव पदत्थो पदविग्गहो ।
=
चालणा य पसिद्धी य छव्विहं विद्धि लक्खणं ॥ अनु० सू० ६०५ गा० १३५॥