________________
ॐ ही अहँ नमः श्री मुनिसुव्रतस्वामिने नमः श्री शंखेश्वरपार्श्वनाथाय नमः
श्री महावीरस्वामिने नमः अनन्तलब्धिनिधानाय श्री गौतमस्वामिने नमः
ऐं नमः श्रीप्रेम-भुवनभानु-जयघोष-जयसुन्दरसूरिसद्गुरुभ्यो नमः
अर्हम् श्रीमद्भद्रबाहुस्वामिप्रणीता सभाष्या श्रीहरिभद्रसूरिप्रारब्ध
श्रीवीराचार्यपूर्णीकृतवृत्तिका
श्री पिण्डनियुक्तिः
वीतरागाय नमः। प्रारभ्यते पिण्डनियुक्तिः। आह– अस्याः कः प्रस्तावः ? इत्युच्यते- इह प्रवचने दशकालिकाख्यः श्रुतस्कन्धोऽस्ति। तत्राऽपि पिण्डैषणाऽऽख्यं पञ्चममध्ययनम्। तस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, उपक्रमादीनि। तत्राऽपि नामनिष्पन्ने निक्षेपे 'पिण्डैषणे'ति नाम, तदिह निरूप्यते इत्ययं प्रस्तावः।
किञ्च- मुमुक्षुणात्मसंयतेन भवितव्यं तदर्थं षड्जीवनिकायेषु इति। उक्तं च"छसु जीवनिकायेसु ये बुधे संयते मते से चेव होति विण्णाते परमत्थेणायसंयते" () इत्यादि।
धर्मकाये च स्वस्थे सत्यसौ प्रायः संयतभावो भवति। स चाहारमन्तरेण न सदा स्वस्थो भवति। स च सावद्येतरभेद इत्यनवद्यो ग्राह्यः। अतस्तत्प्रदर्शनार्थमिदमुच्यत इति। उक्तं च
“से संजते समक्खाये णिरवजाहारे य जे विदू। .
धम्मकायट्ठिए संमं सुहजोगाण साहगे॥” ( ) इत्यादि। - कृतं प्रसङ्गेन, प्रकृतं प्रस्तुम इति। अस्याश्चेयमादिगाथा
पिंडे उग्गम उप्पायणेसणा संजोयणा पमाणे य।
इंगाल धूम कारण अट्ठविहा पिंडनिज्जुत्ती॥१॥ पिंडे उग्गम इत्यादि। अस्या व्याख्या- तल्लक्षणं चेदम्
(टि०) १. स्यां चेयमा० जि०। स्याश्चैवमा० जि१॥