________________
॥ अपरिणतदोषनिरूपणम् ॥
१५५ दव्वंमि होइ छक्कं भावंमि य होति सज्झिलगा॥६४५॥ अपरिणयं पि य गाहा। व्याख्या- अपरिणतमपि च द्विविधं द्रव्यविषयं भावविषयं च, पुनरपि द्विविधमेकैकं दातृ-ग्रहीतृसम्बन्धात्। द्रव्ये भवति सचेतनं पृथिव्यादिषट्कं 'भावम्मि य होति सज्झिलग'त्ति भावे च भवति भ्रात्राोकतरभावोऽपरिणत इति गाथार्थः॥६४५॥ द्रव्यापरिणतस्वरूपमाह
जीवत्तंमि अविगते अपरिणयं परिणयं गते जीवे।
दिटुंतो दुद्ध-दही इय अपरिणयं परिणयं तं च॥६४६॥ जीवत्तंमि गाहा। व्याख्या- जीवत्वे न विगते = अविगते अपरिणतं पृथिव्यादिद्रव्यमुच्यते, परिणतं गते जीवे भवति। दृष्टान्तोऽत्र दुग्ध-दधिनी दुग्धं दधिभावेनानापन्नमपरिणतं तदेव दुग्धं दधिभावेनापन्नं परिणतं चेति गाथार्थः॥६४६॥ भावापरिणतस्वरूपमाह
दुगमादीसामण्णे जति परिणमती तु तत्थ एगस्स
देमि त्ति ण सेसाणं अपरिणयं भावतो एवं॥६४७॥ दुगमाई गाधा। व्याख्या- भ्रात्रादिद्विकादिसामान्ये देये यदि परिणमति तु तत्रैकस्य ददामीत्येवं भावो न शेषाणामित्यपरिणतं भावत एवं स्यादिति गाथार्थः॥६४७॥ ग्रहीतृविषयं भावापरिणतमाह
एगेण वावि एसिं मणंमि परिणामितं ण इयरेणं।
तं पि ह होदि अगेज्झं सज्झिलगा सामि साहू वा॥६४८॥दारं॥ एक्केण गाहा। व्याख्या- एकेन वाऽप्येषणीयं मनसि परिणामितं नेतरेण साधुना तदपि च भवति अग्राह्यमिति, भावापरिणतं च भ्रातृ-स्वामि-साधुविषयं भवतीति गाथार्थः॥६४८॥
भणितमपरिणतद्वारम्। अधुना लिप्तद्वारमाह- लिप्तं नाम यत्र दध्यादिद्रव्यलेपो लगति, एतच्च न ग्राह्यमिति। आह च
घेत्तव्वमलेवकडं लेवकडे मा हु पच्छकम्मं ति। __न य रसगेहिपसंगो इति वुत्ते चोदओ भणइ॥६४९॥ घेतव्व० गाहा। व्याख्या- गृहीतव्यमलेपकृतं वल्ल-चनकादि, लेपकृते मा भूत् पश्चात्कर्मेति अतस्तन्न गृह्णन्ति। अलेपकृतग्रहणे गुणमाह- न च रसगृद्धिप्रसङ्गो भवतीत्युक्ते चोदको भणतीति
(टि०) १. दहि जे१,२ विना॥ २. इत्ति परि० ख०॥ ३. अप० ख०॥ ४. ०भावापन्नं परिणतमपरिणतं चेति गाथार्थः जि० जि१॥ ५. एयं जे२ विना॥ ६. तेसिं जे४ भां०। णसिं खं०॥ ७. य खं०॥ ८. ति य। जीवापरि० जि० जि१॥ ९. दध्यादेर्दयद्रव्य० ला०॥ १०. ०कम्माई जे४ भां०॥ ११. अभक्षणं ला०॥ (वि०टि०) .. “अथ साधारणानिसृष्टस्य दातृभावापरिणतस्य च कः परस्परं प्रतिविशेषः ? उच्यते, साधारणानिसृष्टं दायकपरोक्षत्वे, दातृभावापरिणतं तु दायकसमक्षत्वे इति।" इति मलय०॥ *. वीरगणिमते ०कम्माई इति पाठः स्यात्॥