________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
तत्राद्यभङ्गत्रये प्रतिषेधश्चरमे भगे अचित्तेऽचित्तं उन्मिश्य ददातीत्येवं लक्षणे भजना तु भवतीति गाथार्थः॥६४१॥ अतिदेशं कुर्व्वन्नाह
जह चेव य संजोगा कायाणं हेट्ठओ तु साहरणे ।
तह चेव य उम्मीसे होइ विसेसो इमो तत्थ ॥ ६४२ ॥
जह चेव य गाहा। व्याख्या- यथा चैव संयोगाः कायानां पृथिव्यादीनां अधस्तात्तु संहरणे, प्रदर्शिता इति गम्यते, तथा चैवोन्मिश्रेऽपि द्रष्टव्याः, नानात्वमिदं तृतीयभङ्गे यथा पूर्व्वमुक्तं तथैव अचित्तं सचित्ते पृथिव्यादावुन्मिश्र्य ददातीत्येवं लक्षणे तृतीयभङ्गेऽत्रापि द्रष्टव्यम् ॥६४२|
ननु संहृतद्वारोन्मिश्रद्वारयोः कः पुनर्विशेष ? इत्याह
१५४
दायव्वमदायव्वं च दो वि दव्वाइं देइ मीसेउं ।
ओयणकुणादणं साहरण तदण्णहिं छोढुं ॥ ६४३॥
दायव्वं गाहा। व्याख्या– दातव्यमदातव्यं च ददाति द्रव्ये द्वे अपि मिश्रयित्वा यथौदनं कुशनेन मिश्रयित्वा एवंविधमुन्मिश्रलक्षणं भवति, संहरणं तु भिक्षादानार्थं दध्यादिमात्रकस्थितद्रव्यमन्यत्र तत् संहृत्य ददातीत्येवं स्वरूपं संहरणमिति गाथार्थः ॥ ६४३ ॥ चतुर्थभङ्गभजनामाह
तं पिय सुक्के सुक्कं भंगा चत्तारि जह तु साहरणे । अप्पबहुए वि चउरो तहेव आइण्णऽणाइण्णे ॥ ६४४ ॥
तं पि गाहा । व्याख्या - तदपि च यदचित्तेऽचित्तं उन्मिश्य ददातीति एतदपि शुष्के शुष्कमित्याद्येवं रूपाश्चत्वारो भङ्गा यथा तु संहरणे तथाऽत्राऽपि द्रष्टव्याः । अल्प - बहुकपदद्वयेऽपि चत्वारो भङ्गाः, आचरिता - ऽनाचरितस्वरूपास्तथैव द्रष्टव्या यथा संहरण इति गाथार्थः॥६४४॥
गतं उन्मिश्रद्वारम् । इदानीं अपरिणतद्वारं द्विविधमाह
अपरिणयं पि य दुविहं दव्वे भावे य दुविहमेक्वेक्कं ।
(टि०) १. ०दीणि खं० ॥
(वि०टि० ) . यथा संहरणद्वारे तृतीयभङ्गे स्वस्थान - परस्थानापेक्षया षटूत्रिंशत्संयोगाः प्रदर्शिताः तथैव अत्राऽपि भावनीयाः, तद्यथा सचित्तपृथिवीकाय: सचित्तपृथिवीकाये उन्मिश्रः, सचित्तपृथिवीकायः सचित्ताप्काये उन्मिश्र इत्येवं स्वयं संयोगा ऊहनीयाः॥ *. चत्वारो भङ्गा इमे - शुष्के शुष्कम् (१) शुष्के आर्द्रम् (२) आर्द्रे शुष्कम् (३) आर्द्रे आर्द्रम् (४) ॥ 8. अल्पबहुत्वे अधिकृत्य चत्वारो भङ्गा तद्यथा - "स्तोके शुष्के स्तोकं शुष्कम् (१) स्तोके शुष्के बहुकं शुष्कम् (२) बहुके शुष्के स्तोकं शुष्कम् (३) बहुके शुष्के बहुकं शुष्कमिति (४) एवं शुष्के आर्द्रमित्यादावपि भङ्गत्रिके प्रत्येकं चतुर्भी भावनीया, सर्वसङ्ख्यया भङ्गाः षोडश" इति मलय० ॥ . आचरिता - ऽनाचरितस्वरूपा इमे - " शुष्के शुष्कमित्यादीनां चतुर्णां भङ्गानां प्रत्येकं यौ द्वौ द्वौ भनौ स्तोके स्तोकमुन्मिश्रं बहुके स्तोकमित्येवंरूपौ तौ कल्प्यौ दात्रीपीडादिदोषाभावात् स्तोके बहुकं, बहुके बहुकमित्येवंरूपौ तु यौ द्वौ द्वौ भनौ तावकल्प्यौ तत्र दात्रीपीडादोषसम्भवात् ..." इति मलय० ॥