________________
१३२
॥ सवृत्तिपिण्डनियुक्तिः ॥ पच्छा वि य तं कजं असंगहो मा य णासेजा ॥५४६॥दारं॥ किं ण गाहा। व्याख्या- किं न स्थाप्यते अनेकार्थत्वाद्धातूनां किं न विवाह्यत इत्यर्थः, पुत्रः = तनयः ‘पत्तो'त्ति प्राप्तवयाः कुलगोत्रकीर्तीनां सन्तानः = प्रवाहः, पश्चादपि च तद् विवाहकर्मा कार्यम्, अतोऽधुनैव क्रियताम्, न विद्यते सङ्ग्रहोऽस्येति असङ्ग्रहः = अपरिणीतः सन् मा नश्येत् = क्वापि यायादिति गाथार्थः॥५४६॥ प्रागुपन्यस्तदण्डिकिनीद्वयोदाहरणमाह
किं अद्धिइ त्ति पुच्छा सवत्तिणी गम्भिणी त्ति मे देवी।
गब्भादाणं तुज्झ वि करेमि मा अद्धिई कुणसु॥५४७॥ किं अद्धिई गाहा। व्याख्या- केनचित् गोचरप्रविष्टेन यतिना पिण्डलिप्सुना दानशिला राज्ञी पृष्टा"किं त्वं अधृतिमती ?" ति। सा चावोचत्- “मम सपत्नी देवी गर्भिणी तस्याश्च पुत्रः समादिष्टो दैवज्ञेन।” एतदाकर्ण्य साधुराह– “गर्भाधानं तवापि करोमि, अधृति मा कार्षी” । दत्तं चौषधमिति गाथार्थः॥५४७॥ औषधप्रदानानन्तरं सा पुनरप्याह
जइ वि सुतो मे होहिति तह वि कणिट्ठो त्ति इतरो जुवराया।
देइ परिसाडणं से णाए य पदोस पत्थारो॥५४८॥ जइ गाहा। व्याख्या- “यद्यपि सुतो मम भविष्यति त्वदीयौषधप्रभावात् सोऽपि कनिष्ट इति, इतरस्तु सपत्नीपुत्रो युवराजा भविष्यतीति; अतस्तद्दीर्घतैव पलाशानाम्"। एवं कथिते साधुर्ददाति तत्सपत्न्या गर्भपरिशातनकृद् औषधमिति। अत्र दोषानाह- ज्ञाते च प्रद्वेष-प्रस्तारादयो दोषाः स्युरिति गाथार्थः॥५४८॥ समस्तमूलकर्मदोषानाह
संखडिकरणे काया कामपवित्तिं च कुणइ एगत्थ।
एगत्थुड्डाहादी जजिय भोगंतरायं च ॥५४९॥ संखडि० गाहा। व्याख्या- वीवाहसंखडीकरणे 'काय'त्ति कायानां वधः कामप्रवृत्तिं च करोति, एकत्र संयोजितायां एकत्र वियोजितायां यावज्जीवमुड्डाहादिर्यावज्जीवं भोगान्तरायं चेति गाथार्थः॥५४९॥ ___ एवंविधमूलकर्मसमुत्पादितः पिण्डो न कल्पते साधूनामिति।
अभिहिता षोडशद्वारात्मिकोत्पादनैषणा, तदभिधानाच्च समाप्ता गवेषणैषणा। साम्प्रतं ग्रहणैषणायाः सम्बन्धं कुर्वन्नाह
एवं तु गविट्ठस्सा उग्गम-उप्पायणाविसुद्धस्स।
गहणविसोहिविसुद्धस्स होइ गहणं तु पिंडस्स॥५५०॥ एवं तु गाहा। व्याख्या- एवं त्वनन्तरोक्तविधिना गवेषितस्य 'उद्गमोत्पादनाविशुद्धस्य' तत्रोद्गमोत्पादने व्याख्यातस्वरूपे ताभ्यां विशुद्धस्य ‘ग्रहणविशुद्धिविशुद्धस्य' तत्र ग्रहणविशुद्धि(टि०) १. होही जे४ भां०॥ २. ०स्स तु उग्ग० खं०॥