________________
१२८
॥ सवृत्तिपिण्डनियुक्तिः ॥ दिण्णे पडिसाहरणं केण हियं केण मुट्ठो "म्हि॥५३०॥ परिपिंडि० गाधा। गंतुं गाधा। (व्याख्या-) परिपिण्डितानां साधूनां परस्परमुल्लापो यथाऽसावतिप्रान्तो भिक्षूपासको न अस्मभ्यं ददाति, अतः कस्तं दापयेत् ? तत्र एको यतिराह“यदीच्छथ ततोऽनुजानीध्वं मां येनाऽहं घृत-गुड-वस्त्राणि दापयामी''ति। ततो गत्वोपासकगृहं विद्ययाऽसौ अभिमन्त्रितः। साधूनिदमाह- "किं युष्मभ्यं ददामि घृतं गुडं वस्त्रादि वा ? दत्ते च घृतादौ उपसंहरणं कृतं साधुना विद्यायाः, तदुपसंहरणानन्तरं च समागतचेता विलपितुमारब्धः- “केन मदीयं हृतं केन वाऽहं मुषितोऽस्मी"ति गाथाद्वयार्थः॥५२९-५३०॥ अत्र दोषानाह
पडिविजथंभणादी सो वा अण्णो व से करेजाहि।
पावाजीवी मायी कम्मणकारी य गहणादी॥५३१॥ दारं॥ पडिविज० गाहा। व्याख्या- प्रतिविद्यया स्तम्भनादि, आदिशब्दाद् वध-बन्धनादि, स एवोपासकस्तदन्यो वा 'से' तस्य विद्याप्रयोक्तुर्यतेः कुर्य्यात्; तथा लोकाश्च तमाहुः- “पापजीवी मायी कार्मणकारी चायं साधुः", ततो ग्रहणादयो दोषाः परिभवादिदोषा जायन्त इति गाथार्थः॥५३१॥ साम्प्रतं मन्त्रोदाहरणमाह
जह जह पदेसिणिं जाणुगम्मि पालित्तओ भमाडेइ।
तह तह सीसे वियणा पणस्सति मुरुंडरायस्स॥५३२॥ जह जह गाहा। व्याख्या- यथा यथा प्रदेशिनीम् = तर्जनीमङ्गुली जानुनि प्रदीप्तकसूरिर्धमयति तथा तथा शिरसि वेदना प्रणश्यति मुरुण्डराजस्य; स च तस्मै पिण्डाद्यदादित्येवंविधश्च पिण्डो न ग्राह्यः यतोऽमी दोषाः ॥५३२॥
पडिमंतथंभणादी सो वा अण्णो व से करेजाहि।
पावाजीवी माई कम्मणकारी भवे बिइओ॥५३३॥ दारं॥ पडिमंत० गाहा। उक्ताथैव॥५३३॥ उक्तं विद्यापिण्ड-मन्त्रापिण्डद्वयम्। अधुना चूर्णपिण्ड-योगपिण्ड-मूलकर्मपिण्डानाह
तत्र वशीकरणा-ऽञ्जना-ऽन्तर्धानकरणरूपाश्चूण्र्णाः, पादप्रलेपादयः सौभाग्य-दौर्भाग्यकारिणो वा औषधविशेषा योगाः, वीवाह-गर्भोत्पादन-गर्भशातनादिलक्षणं मूलकर्मेति। आह
चुण्णे अंतद्धाणे चाणक्के पादलेवणे जोगे। __ मूल विवाहे दो दंडिणी उ आदाण-परिसाडे॥५३४॥ चुण्णे गाहा। व्याख्या- चूण्र्णान्तर्धाने चाणक्य उदाहरणं पादप्रलेपलक्षणे योगे समिताचार्य उदाहरणं 'मूले'त्ति मूलकर्मणि वीवाहकरणं (?णे) द्वे दण्डिकिन्यौ गर्भादान-परिशातनयोरुदाहरणमिति (टि०) १. ०दन्ये ला०॥ २. ०ह से सिर जे२॥ ३. ०णको जे१॥ ४. समिया जे१,२॥