________________
॥ सवृत्तिपिण्डनियुक्तिः ॥ अभिमुखं आहृतं- आनीतं = अभ्याहृतं, गृहस्थादिनेति गम्यते, तच्च द्विभेदमित्याह
आइण्णमणाइण्णं णिसीहाभिहडं च णोणिसीहं च।
णिसिहाभिहडं ठप्पं णोणिसीहं तु वोच्छामि ॥३५६॥ आइण्ण० गाहा। व्याख्या- तद् अभ्याहृतं आचरिता-ऽनाचरितभेदाद् द्विधा, पुनरप्येकैकं निशीथा-ऽनिशीथभेदाद् द्विधैव, तत्र निशीथं प्रच्छन्नम्, तद्विपरीतं नोनिशीथम्। तत्र तावन्निशीथाभ्याहृतं स्थाप्यं नोनिशीथाऽभ्याहृतं तु वक्ष्यामीति गाथार्थः॥३५६।। तद् द्विविधमित्याह च
सग्गाम-परग्गामे सदेस-परदेसमेव बोधव्वं ।
दुविहं तु परग्गामे जल-थल णावोडु जंघाए॥३५७॥ सग्गाम-परग्गामे गाधा। व्याख्या- यत्तु नोनिशीथाभ्याहृतं तत् स्वग्राम-परग्रामभेदा(द्) द्विधा। तत्र यत् परग्रामाभ्याहृतं तत् स्वदेशपरग्रामाभ्याहृतं परदेशपरग्रामाभ्याहृतं चेति। अत्र स्वदेशपरदेशयोश्चतुर्भङ्गिका कार्या। तत् सर्वमपि परग्रामाभ्याहृतं द्विविधं जलपथेन स्थलपथेन वा। यत् तज्जलपथेन तदपि द्विविधैव जङ्घाभ्यां नावादिना चेति गाथार्थः॥३५७॥ अमुमेवा) सविशेषमाह
जंघा-बाहु-तरीय व जले थले खंध अरखुरनिबद्धा।
संजम-आयविराहण तहियं पुण संजमे काया॥३५८॥ जंघा० गाहा। व्याख्या- जवाभ्यां बाहुभ्यां तरी = नौः तया वा जले = जलविषये, स्थले तु स्कन्धकेन ‘अरखुरनिबद्ध'त्ति निबद्धशब्दः प्रत्येकमभिसम्बध्यते, ततश्चारनिबद्धा = गन्त्री तदादिना खुरनिबद्धेन = रासभादिना, द्वितीयार्द्धन दोषानाह– 'संजमे'त्यादि स्पष्टमिति गाथार्थः॥३५८॥ साम्प्रतं जल-स्थलाऽपायानाह
अत्थाह गाह-पंका मगरोहारा जले अवाया उ।
कंटा-ऽहि-तेण-सावय थलंमि एए भवे दोसा॥३५९॥ अत्थाह गाधा। व्याख्या– अथाह-ग्राह-पङ्क-मकर-कच्छपा जले = जलविषया अपायाः, नवरं ओहारः = कच्छपः। कण्टका-ऽहि-स्तेन-श्वापदाः स्थलविषया अमी दोषा इति गाथार्थः॥३५९॥ उक्तं परग्रामाभ्याहृतम्। साम्प्रतं स्वग्रामाभ्याहृतमाह
सग्गामे वि य दुविहं घरंतरं नोघरंतरं चेव।
तिघरंतरा परेणं घरंतरं तं तु नायव्वं ॥३६०॥ सग्गामे गाहा। व्याख्या- स्वग्रामाभ्याहृतं द्विविधं तद्यथा- गृहान्तराभ्याहृतं नोगृहान्तराभ्याहृतं (टि०) १. ०प्पं वोच्छामी नोनिसीहं तु भां० जे४॥ २. देसप० जे१ भां० जे४ विना॥ ३. ०धव्वे जे१,२ को०॥ ४. च खं०॥ ५. यत्र नोनि० जि१। यत्तन्नोनि० जि०॥ ६. दोषमाह ला०॥ (विटि०).."अस्ताघे = पदादिभिरलभ्यमानेऽधोभूभागे अधोनिमज्जनलक्षणोऽपायो भवति" इति मलय०॥