________________
॥ परिवर्तितदोषनिरूपणम् ॥ अवरोप्परसज्झिलगा संजुत्ता दो वि अण्णमण्णेणं। पोग्गलिय संजयट्ठा परियट्टण संखडे बोही॥३५१॥ . अणुकंप भगिणिगेहे दरिद्द परियट्टणा य कूरस्स। पुच्छा कोद्दवकूरे मच्छर णाइक्ख पंतावे॥३५२॥ इतरो वि य पंतावे णिसि ओसमिताण तेसि दिक्खा य।
तम्हा उ ण घेत्तव्वं कइ वा जे उवसमेहिंति॥३५३॥ वसंतपुरे नगरे द्वौ वणिजौ देवदत्त-धनदत्तनामानौ बभुवतुः। तत्र देवदत्तभगिनी लक्ष्मीनाम्नी धनदत्तेनोवूढा धनदत्तभगिनी च बन्धुमती देवदत्तेनेति। अन्यदा देवदत्तभ्राता पूर्वप्रव्रजितो विहरन् अनुकम्पया भगिनीलक्ष्मीगृहं प्रविष्टः। सा च दारिद्र्यात् कोद्रवोदनेन भ्रातृगृहात् परिवर्त्य शाल्योदनं सादरमदात् तस्मै। देवदत्तश्च भुञ्जानो बन्धुमत्या अभिहितो- “ददामि कोद्रवोदनं यदि ते रोचते नो चेत्तिष्ठतु"। ततः कुपितेन वृत्तान्ताकथने तया ताडितयोक्तं- “तवैव भगिन्या नीतः शाल्योदनः, किमिति मां ताडयसीति ?"। धनदत्तेनाऽपि ममाऽनया लघुत्वमानीतमिति लक्ष्मीरपि ताडिता। विदितवृत्तान्तेन च साधुना धर्मकथयो-पशमय्य सर्वाणि प्रव्राजितानि इति।
कियन्तो चेदृशा भविष्यन्तीत्यतः परिवर्तितं न ग्राह्यमिति गाथात्रयार्थः॥३५१-३५३॥
उक्तं लौकिकपरिवर्तितम्। अधुना लोकोत्तरमुच्यते- यच्छ्रमणः श्रमणेन सह वस्त्रादिपरिवर्तनं करोति तल्लोकोत्तरपरिवर्तनम्। तत्र चामी दोषाः
ऊणहियदुब्बलं वा खर-गुरु-छिण्ण-मइलं असीयसहं।
दुव्वण्णं वा णाउं विपरिणमे अण्णभणिओ वा॥३५४॥ ऊणहिय० गाहा। व्याख्या- न्यूनाधिक-दुर्बल-खर-गुरु-छिन्न-मलिना-ऽशीतसहदुर्वर्णादिदोषान् ज्ञात्वा विपरिणमेदेकतरः स्वयमन्यचोदितो वेत्यतः परिवर्तनं न कार्यम्॥३५४॥ *द्वितीयपदमाश्रित्याह
एगस्स माणजुत्तं न उ बिइए एवमाइ कज्जेसु।
गुरुपामूले ठवणं सो दलयइ अण्णहा कलहो॥३५५॥ दारं॥ एगस्स गाहा। व्याख्या- एकस्य मानयुक्तं न परस्य, न्यूनाधिकं वस्त्रादीति, परिवर्तनसम्भवे विधिमाह- गुरुपादमूले स्थापनं स ददाति मा भूत् कलहादयो दोषा इति गाथार्थः॥३५५॥
उक्त परिवर्तितद्वारम्। अधुनाऽभ्याहृतमुच्यते(टि०) १. ०मिऊण जे२। सवियाण खं० जे२ विना॥ २. ओसमेहिंति भां० जे४, ओसावहिंति जे१,२॥ ३. अभिहतो जि०॥ ४. ऊणाहि० जे१,२॥ ५. रुपायमूले खं०॥ ६. ०युक्तं अपरस्य जि० जि१॥ ७. भूदवच्छलकल० ला०॥ (वि०टि०) .. द्वितीयपदम् = अपवादपदम् इति ला० टि०॥