________________
(३५)
पुन्नाटसङ्घीयाचार्यजिनसेनकृतं हरिवंशपुराणस्थं
'श्री चतुर्विंशतिजिनमंगलम्' (वि० सं० ७२८ / ई० स०७८५)
(अनुष्टुभ्) सिद्धं ध्रौव्यव्ययोत्पादलक्षणद्रव्यसाधनम् । जैनं द्रव्याद्यपेक्षातः साधनाद्यथ शासनम् ॥ १ ॥ शुद्धज्ञानप्रकाशाय लोकालोकैकभानवे । नमः श्रीवर्द्धमानाय वर्द्धमानजिनेशिने ॥ २ ॥ नमः सर्वविदे सर्वव्यवस्थानां विधायिने । कृतादिधर्मतीर्थाय वृषभाय स्वयम्भुवे ॥ ३ ॥ येन तीर्थमभिव्यक्तं द्वितीयमजितायितम् । अजिताय नमस्तस्मै जिनेशाय जितद्विषे ॥ ४ ॥ शं भवे वा विमुक्तौ वा भक्ता यत्रैव शम्भवे । भेजुर्भव्या नमस्तस्मै तृतीयाय च सम्भवे ॥ ५ ॥ तीर्थं चतुर्थमर्थ्यर्थं यश्चकाराभिनन्दनः । लोकाभिनन्दनस्तस्मै जिनेन्द्राय नमस्त्रिधा ॥ ६ ॥ पञ्चमं सप्रपञ्चार्थं तीर्थं वर्तयति स्म यः ।। नमः सुमतये तस्मै नमः सुमतये सदा ॥ ७ ॥ ककुभोऽभासयद्यस्य जितपद्मप्रभा प्रभा । पद्मप्रभाय षष्ठाय तस्मै तीर्थकृते नमः ॥ ८ ॥ यस्तीर्थं स्वार्थसंपन्नः परार्थमुदपादयत् । सप्तमं तु नमस्तस्मै सुपार्वाय कृतात्मने ॥ ९ ॥ अष्टमस्येन्द्रजुष्टस्य कत्रै तीर्थस्य तायिने । चन्द्रप्रभजिनेन्द्राय नमश्चन्द्राभकीर्तये ॥ १० ॥