________________
१४६
बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
पश्येत् स्वां तनुमिन्दुमण्डलगतां त्वां चाभितो मण्डितां यो ब्रह्माण्डकरण्डपिण्डितसुधाडिण्डीरपिण्डैरिव । स्वच्छन्दोद्गतगद्यपद्यलहरीलीलाविलासामृतैः
सानन्दास्तमुपाचरन्ति कवयश्चन्द्रं चकोरा इव ॥ ७ ॥ तद्वेदान्तशिरस्तदोङ्कृतिमुखं तत् तत्कलालोचनं
तत्तद्वेदभुजं तदात्महृदयं तद्गद्यपद्यांघ्रीव च । यस्त्वद्वर्ष्म विभावयत्यविरतं वाग्देवते ! वाङ्मयं शब्दब्रह्मणि निष्ठितः स परमब्रह्मैकतामश्नुते ॥ ८ ॥ वाग्बीजं स्मरवीजयवेष्टितमतो ज्योतिः कला तद्बहिश्चाष्टद्वादशषोडशद्विगुणितद्यष्टाब्जपत्रान्वितम् ।
तद्बीजाक्षरकादिवर्णरचितान्यग्रे दलस्यान्तरे
हंसः कूटयुतं भवेदवितथं यन्त्रं तु सारस्वतम् ॥ ९ ॥ ओमैं श्रीमनु सौं ततोऽपि च पुनः क्लीं वदौ वाग्वादि -
न्येतस्मादपि ह्रीं ततोऽपि च सरस्वत्यै नमोऽदः पदम् । अश्रान्तं निजभक्तिशक्तिवशतो यो ध्यायति प्रस्फुटं बुद्धिज्ञानविचारसारसहितः स्याद् देव्यसौ साम्प्रतम् ॥ १० ॥ (स्त्रग्धरावृत्तम्)
स्मृत्वा मन्त्रं सहस्रच्छदकमलमनुध्याय नाभीहृदोत्थं श्वेतस्निग्धोर्ध्वनालं हृदि विकचतां प्राप्य निर्यातमास्यात् । तन्मध्ये चोर्ध्वरूपामभयदवरदां पुस्तकाम्भोजपाणि
वाग्देवी त्वन्मुखाश्च स्वमुखमनुगतां चिन्तयेदक्षरालीम् ॥ ११ ॥ (मालिनीवृत्तम्)
किमिह बहुविकल्पैर्जल्पितैर्यस्य कण्ठे भवति विमलवृत्तस्थूलमुक्तावलीयम् । भवति भवति ! भाषे ! भव्यभाषाविशेषैर्मधुरमधुसमृद्धस्तस्य वाचां विलासः ॥ १२ ॥