________________
(२७) श्रीमद्-हरिभद्रसूरिविरचिता 'संसारदावानलस्तुतिः'
(ईस्वी अष्टमशताब्द्याः तृतीयचरणं प्रायः)
(उपेन्द्रवज्रा)
संसारदावानल-दाहनीरं,
संमोह-धूलीहरणे समीरं । माया-रसा-दारण-सार-सीरं
नमामि वीरं गिरिसार-धीरम् ॥ १ ॥
(वसन्ततिलकावृत्तम्)
भावावनाम-सुरदानवमानवेन
चूलाविलोलकमलावलिमालितानि । संपूरिताभिनतलोकसमीहितानि
कामं नमामि जिनराजपदानि तानि ॥ २ ॥
(मन्दाक्रान्तावृत्तम्)
बोधागाधं सुपदपदवीनीरपूराभिरामं
जीवाहिंसाविरललहरीसंगमागाहदेहम् । चूलावेलं गुरुगममणिसंकुलं दूरपारं
सारं वीरागमजलनिधि सादरं साधु सेवे ॥ ३ ॥