________________
१३४
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा अगाधमन्यैर्मनसाऽप्यलयं
निष्किञ्चनं प्रार्थितमर्थवद्भिः । विश्वस्य पारं तमदृष्टपारं
पतिं जिनानां शरणं व्रजामि ॥ ३५ ॥ त्रैलोक्यदीक्षा गुरवे नमस्ते
यो वर्धमानोऽपि निजोन्नतोऽभूत् । प्राग्गण्डशैलः पुनरद्रिकल्पः
पश्चान्न मेरुः कुलपर्वतोऽभूत् ॥ ३६ ॥ स्वयंप्रकाशस्य दिवा निशा वा
न बाध्यता यस्य न बाधकत्वम् । न लाघवं गौरवमेकरूपं
वन्दे विभं कालकलामतीतम् ॥ ३७ ॥ इति स्तुति देव विधाय दैन्या
द्वरं न याचे त्वमुपेक्षकोऽसि । छायातलं संश्रयतः स्वतः स्यात्
कच्छायया याचितयात्मलाभः ॥ ३८ ॥ अथास्ति दित्सा यदि वोपरोध
स्त्वय्येव शक्तां दिश भक्तिबुद्धिम् । करिष्यते देव तथा कृपां मे
को वात्मपोष्ये सुमुखो न सूरिः ॥ ३९ ॥ वितरति विहिता यथाकथञ्चि
ज्जिन विनताय मनीषितानि भक्तिः । त्वयि नुतिविषया पुनर्विशेषादिशति सुखानि यशो धनं जयं च ॥ ४० ॥