________________
( २८ )
श्रीमद्- हरिभद्रसूरिविरचितं 'श्रीजिनसाधारण - स्तवनम्'
(प्रायः ईस्वी अष्टमशताब्द्याः तृतीयचरणम्)
(विषमवृत्तम्)
अङ्गलिदलाभिरामं सुरनरनिवहालिकुलसमालीढम् । देव ! तव चरणकमलं नमामि संसारभयहरणम् ॥ १ ॥
कामकरिकुम्भदारण ! भवदवजलवाह ! विमलगुणनिलय ! । किंकिल्लिपल्लवारुणकरचरण ! निरुद्धचलकरण ! ॥ २ ॥
मायारेणुसमीरण ! भवभूरूहसिन्धुर ! निरीह ! । मरणजरामयवारण ! मोहमहामल्लबलहरण ! ॥ ३ ॥
भावारिहरिणहरिवर ! संसारमहाजलालयतरण्ड । कलिलभरतिमिरत्रासुररविमण्डल ! गुणमणिकरण्ड ! ॥ ४ ॥
अमरपुरन्दरकिन्नर - नरवरसन्दोहभसलवरकमल ! । करुणारसकुलमन्दिर ! सिद्धिमहापुरवरनिवास ! ॥ ५ ॥
सुसमयकमलसरोवरसुरगिरवर ! सारसुन्दरावयव ! । चिन्तामणिफलसङ्गम ! रागोरुगगरुड ! वरचरण ! ॥ ६ ॥
हरहासहारहिमकरहिमकुन्दकरेणुधवल ! समचित्त ! | अकलङ्क ! सुकुलसंभव ! भवविरहं देहि मम देव ! ॥ ७ ॥
एवं संस्कृतवचनैः प्राकृतवचनैश्च सर्वथा साम्यम् । विदधानैर्विनुतो मे जिनेश्वरो भवतु सुखहेतुः ॥ ८ ॥