________________
१३२
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा श्रिया परं पश्यति साधु निःस्वः
श्रीमान्न कश्चित्कृपणं त्वदन्यः । यथा प्रकाशस्थितमन्धकार
स्थायीक्षतेऽसौ न तथातमःस्थम् ॥ २१ ॥ स्ववृद्धिनिःश्वासनिमेषभाजि
प्रत्यक्षमात्मानुभवेऽपि मूढः । किं चाखिलज्ञेयविवर्तिबोध
स्वरूपमध्यक्षमवैति लोकः ॥ २२ ॥ तस्यात्मजस्तस्य पितेति देव
त्वां तेऽवगायन्ति कुलं प्रकाश्य । तेऽद्यापि नन्वाश्मनमित्यवश्यं
प्राणौ कृतं हेम पुनस्त्यजन्ति ॥ २३ ॥ दत्तस्त्रिलोक्यां पटहोऽभिभूताः
सुरासुरास्तस्य महान्स लाभः । मोहस्य मोहस्त्वयि को विरोद्ध
द्लस्य नाशो बलवद्विरोधः ॥ २४ ॥ मार्गस्त्वयैको ददृशे विमुक्ते
श्चतुर्गतीनां गहनं परेण । सर्वं मया दृष्टमिति स्मयेन
त्वं मा कदाचिद् भुजमालुलोके ॥ २५ ॥ स्वर्भानुरर्कस्य हविर्भुजोऽम्भः
कल्पान्तवातोऽम्बुनिधेर्विघातः । संसारभोगस्य वियोगभावो
विपक्षपूर्वाभ्युदयास्त्वदन्ये ॥ २६ ॥ अजानतस्त्वां नमतः फलं य
त्तज्जानतोऽन्यं न तु देवतेति । हरिन्मणी-काचधिया दधान
स्तं तस्य बुद्धया वहतो न रिक्तः ॥ २७ ॥