________________
१३०
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा उपैति भक्त्या सुमुखः सुखानि
त्वयि स्वभावाद्विमुखश्च दुःखम् । सदावदातद्युतिरेकरूप
स्तयोस्त्वमादर्श इवावभासि ॥ ७ ॥ अगाधताऽब्धेः स यतःपयोधि
भैरोश्च तुङ्गा प्रकृतिः स यत्र । द्यावापृथिव्योः पृथुता तथैव
व्याप त्वदीया भुवनान्तराणि ॥ ८ ॥ तवानवस्था परमार्थतत्त्वं
त्वया न गीतः पुनरागमश्च । दृष्टं विहाय त्वमदृष्टमैषी
विरुद्धवृत्तोऽपि समञ्जसस्त्वम् ॥ ९ ॥ स्मरः सुदग्धो भवतैव तस्मि
त्रुद्धूलितात्मा यदि नाम शम्भुः । अशेत वृन्दोपहतोऽपि विष्णुः
किं गृह्यते येन भवानजागः ॥ १० ॥ स नीरजाः स्यादपरोऽघवान्वा
तद्दोषकीत्यैव न ते गुणित्वम् । स्वतोऽम्बुराशेर्महिमा न देव
स्तोकापवादेन जलाशयस्य ॥ ११ ॥ कर्मस्थिति जन्तुरनेकभूमि
नयत्यमुं सा च परस्परस्य । त्वं नेतृभावं हि तयोर्भवाब्धौ
जिनेन्द्र ! नौनाविकयोरिवाख्यः ॥ १२ ॥ सुखाय दुःखानि गुणाय दोषान्,
धर्माय पापानि समाचरन्ति । तैलाय बालाः सिकतासमूह निपीडयन्ति स्फुटमत्वदीयाः ॥ १३ ॥