________________
(२६)
महाकवि धनंजयकृतं 'श्री विषापहरस्तोत्रम्'
(प्रायोऽष्टमीशताब्द्याः पूर्वार्धम् )
( उपजातिः )
स्वात्मस्थितः सर्वगतः समस्तव्यापारवेदी विनिवृत्तसङ्गः ।
प्रवृद्धकालोऽप्यजरो वरेण्यः
पायादपायात्पुरुषः पुराणः ॥ १ ॥ परैरचिन्त्यं युगभारमेकः
स्तोतुं वहन्योगिभिरप्यशक्यः । स्तुत्योऽद्य मेऽसौ वृषभो न भानोः
किमप्रवेशे विशति प्रदीपः ॥ २ ॥
तत्त्याज शक्रः शकनाभिमानं
नाहं त्यजामि स्तवनानुबन्धम् । स्वल्पेन बोधेन ततोऽधिकार्थं वातायनेनेव निरूपयामि ॥ ३ ॥
त्वं विश्वदृश्वा सकलैरदृश्यो विद्वानशेषं निखिलैरवेद्यः । वक्तुं कियान्कीदृश इत्यशक्यः स्तुतिस्ततोऽशक्तिकथा तवास्तु ॥ ४ ॥
व्यापीडितं बालमिवात्मदोषैरुल्लाघतां लोकमवापिपस्त्वम् । हिताहितान्वेषणमान्द्यभाज:
सर्वस्य जन्तोरसि बालवैद्यः ॥ ५ ॥
दाता न हर्त्ता दिवसं विवस्वानद्यश्व इत्यच्युतदर्शिताशः ।
सव्याजमेवं गमयत्यशक्तः
क्षणेन दत्सेऽभिमतं नताय ॥ ६ ॥