________________
१२८
बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
दर्शनज्ञानपर्यायेषूत्तरोत्तरभाविषु । स्थिरमालम्बनं यद्वा माध्यस्थ्यं सुखदुःखयोः ॥ १३ ॥
ज्ञाता द्रष्टाऽहमेकोऽहं सुखे दुःखे न चापरः । इतीदं भावनादार्व्य - चारित्रमथवापरम् ॥ १४ ॥ तदेतन्मूलहेतोः स्यात्कारणं सहकारकम् । तद्बाह्यं देशकालादि तपश्च बहिरङ्गकम् ॥ १५ ॥ इतीदं सर्वमालोच्य सौस्थ्ये दौःस्थ्ये च शक्तितः । आत्मानं भावयेन्नित्यं रागद्वेषविवर्जितम् ॥ १६ ॥
कषायै रञ्जितं चेतस्तत्त्वं नैवावगाहते । नीली रक्तेम्बरे रागो दुराधेयो हि कौङ्कुमः ॥ १७ ॥ ततस्त्वं दोषनिर्मुक्त्यै निर्मोहो भव सर्वतः । उदासीनत्वमाश्रित्य तत्त्वचिन्तापरो भव ॥ १८ ॥ हेयोपादेयतत्त्वस्य स्थितिं विज्ञाय हेयतः । निरालम्बो भवान्यस्मादुपेये सावलम्बनः ॥ १९ ॥ स्व परं चेति वस्तुत्वं वस्तुरूपेण भावय । उपेक्षा भावनोत्कर्ष - पर्यन्ते शिवमाप्नुहि ॥ २० ॥ मोक्षेऽपि यस्य नाकाङ्क्षा स मोक्षमधिगच्छति । इत्युक्तत्वाद्धितान्वेषी काङ्क्षा न क्वापि योजयेत् ॥ २१ ॥
सोऽपि च स्वात्मनिष्ठत्वात्सुलभां यदि चिन्त्यते । आत्माधीने सुखे तात यत्नं किं न करिष्यसि ॥ २२ ॥ स्वं परं विद्धि तत्रापि व्यामोहं छिन्धि किन्त्विमम् । अनाकुलस्वसंवेद्ये स्वरूपे तिष्ठ केवले ॥ २३ ॥
स्वः स्वं स्वेन स्थितं स्वस्मै स्वस्मात्स्वस्याविनश्वरे । स्वस्मिन् ध्यात्वा लभेत्स्वेस्थमानन्दममृतं पदम् ॥ २४ ॥
इति स्वतत्त्वं परिभाव्य वाङ्मयं य एतदाख्याति श्रृणोति चादरात् । करोति तस्मै परमार्थसम्पदं, स्वरूपसंबोधनपञ्चविंशति ॥ २५ ॥