SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ (२५) भट्ट-अकलङ्कदेवकृतं 'श्रीस्वरूपसंबोधनस्तोत्रम्' (ईस्वी ७५० प्रायः) (अनुष्टुभ्) मुक्ताऽमुक्तैकरूपो यः कर्मभिः संविदादिना । अक्षयं परमात्मानं ज्ञानमूर्तिं नमामि तम् ॥ १ ॥ सोऽस्त्यात्मा सोपयोगोऽयं क्रमाद्धेतुफलावहः । यो ग्राह्योऽग्राह्यानाद्यन्तः स्थित्युत्पत्तिव्ययात्मकः ॥ २ ॥ प्रमेयत्वादिभिर्धमैरचिदात्मा चिदात्मकः । ज्ञानदर्शनतः तस्मात् चेतनाचेतनात्मकः ॥ ३ ॥ ज्ञानाद्भिन्नो न चाभिन्नो भिन्नाभिन्नः कथञ्चन । ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितः ॥ ४ ॥ स्वदेहप्रमितश्चायं ज्ञानमात्रोऽपि नैव सः । ततः सर्वगतश्चायं विश्वव्यापी न सर्वथा ॥ ५ ॥ नानाज्ञानस्वभावत्वादेकोऽनेकोऽपि नैव सः । चैतनैकस्वभावत्वादेकानेकात्मको भवेत् ॥ ६ ॥ नाऽवक्तव्यः स्वरूपाद्यैः निर्वाच्यः परभावतः । तस्मान्नैकान्ततो वाच्यो नापि वाचामगोचरः ॥ ७ ॥ स स्याद्विधिनिषेधात्मा स्वधर्मपरधर्मयोः । समूर्तिर्बोधमूर्तित्वादमूर्तिश्च विपर्ययात् ॥ ८ ॥ इत्याद्यनेककर्मत्वं बन्धमोक्षौ तयोः फलम् । आत्मा स्वीकुरुते तत्तत्कारणैः स्वयमेव तु ॥ ९ ॥ कर्ता यः कर्मणां भोक्ता तत्फलानां स एव तु । बहिरन्तरुपायाभ्यां तेषां मुक्तत्वमेव हि ॥ १० ॥ सदृष्टिज्ञानचारित्रमुपायः स्वात्मलब्धये । तत्त्वे याथात्म्यसंस्थित्यमात्मनो दर्शनं मतम् ॥ ११ ॥ यथावद्वस्तुमिर्णोतिः सम्यग्ज्ञानं प्रदीपवत् । तत्स्वार्थव्यवसायात्म कथञ्चित्प्रमितेः पृथक् ॥ १२ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy