________________
( २३ )
अज्ञातदाक्षिणात्यकर्तृविरचिता 'श्रीपञ्चपरमेष्ठिस्तुतिः '
(प्रायः ईस्वी अष्टमशताब्धा: शती ? )
(विषमवृत्तम्)
श्रीमदमरेन्द्रमुकुटप्रघटितमणिकिरणवारिधाराभिः । प्रक्षालितपदयुगलान्प्रणमामि जिनेश्वरान् भक्त्या ॥ १ ॥ अष्टागुणैः समुपेतान् प्रणष्टदुष्टाष्टकर्मरिपुसमितीन् । सिद्धान्सततमनन्तान्नमस्करोमीष्टतुष्टिसंसिद्ध्यै ॥ २ ॥
साचारश्रुतजलधीन्प्रतीर्य शुद्धोरुचरणनिरतानाम् । आचार्याणां पदयुगकमलानि दधे शिरसि मेऽहम् ॥ ३ ॥
मिथ्यावादिमदोग्रध्वान्तप्रध्वंसिवचनसंदर्भान् । उपदेशकान्प्रपद्ये मम दुरितारिप्रणाशाय ॥ ४ ॥
सम्यग्दर्शनदीपप्रकाशका मेयबोधसंभूताः । भूरिचरित्रपताकास्ते साधुगणास्तु मां पान्तु ॥ ५ ॥
जिनसुद्धसूरिदेशकसाधुवरानमलगुणगुणोपतान् । पञ्चनमस्कारपदैस्त्रिसंध्यमभिनौमि मोक्षलाभाय ॥ ६ ॥