________________
१२४
बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
संसारस्य निहन्तारं मल्लं मल्लि मलोज्झितं । नमिं च प्रणताशेषं सुरासुरगुरुं विभुं ॥ १२ ॥
अरिष्टनेमिमन्यूनारिष्टनेमिं महाद्युतिं । पार्श्वं नागेन्द्रसंसक्तपरिपार्श्व विशां पतिं ॥ १३ ॥
सुव्रतं सुव्रतानां च देशकं दोषदारिणं । यस्य तीर्थे समुत्पन्नं पद्मस्य चरितं शुभं ॥ १४ ॥
अन्यानपि महाभागान् मुनीन् गणधरादिकान् । प्रणम्य मनसा वाचा कायेन च पुनः पुनः ॥ १५ ॥