________________
(२२) श्रीरविषेणाचार्यकृतश्रीपद्मचरितान्तर्गतम्
'श्रीचतुर्विंशतिजिनमङ्गलम्' (वी० नि० सं० १२०३/ईस्वी ६७६)
(अनुष्टभ्) सिद्धं संपूर्णभव्यार्थं सिद्धेः कारणमुत्तमं । प्रशस्तदर्शनज्ञानचारित्रप्रतिपादनं ॥ १ ॥ सुरेन्द्रमुकुटाश्लिष्टपादपद्मांशुकेशरं । प्रणमामि महावीरं लोकत्रितयमङ्गलं ॥ २ ॥ प्रथमं चावसर्पिण्यामृषभं जिनपुङ्गवं । योगिनं सर्वविद्यानां विधातारं स्वयम्भुवं ॥ ३ ॥ अजितं विजिताशेषबाह्यशारीरशात्रवं । शंभवं शं भवत्यस्मादित्यभिख्यामुपागतं ॥ ४ ॥ अभिनन्दितनिःशेषभुवनं चाभिनन्दनं । सुमतिं सुमतिं नाथं मतान्तरनिराशिनं ॥ ५ ॥ उद्यदर्ककरालीढपद्माकरसमप्रभं । पद्मप्रभं सुपार्वं च सुपार्वं सर्ववेदिनं ॥ ६ ॥ शरत्सकलचन्द्राभं परं चन्द्रप्रभं प्रभुं । पुष्पदन्तं च संफुल्लकुन्दपुष्पप्रभद्विजं ॥ ७ ॥ शीतलं शीतलध्यानदायिनं परमेष्ठिनं । श्रेयांसं भव्यसत्त्वानां श्रेयांसं धर्मदेशिनं ॥ ८ ॥ वासुपूज्यं सतामीशं वसुपूज्यं जितद्विषं । विमलं जन्ममूलानां मलानामतिदूरगं ॥ ९ ॥ अनन्तं दधतं ज्ञानमनन्तं कान्तदर्शनं । धर्मं धर्मध्रुवाधारं शान्तं शान्तिजिनाहितं ॥ १० ॥ कुन्थुप्रभृतिसत्त्वानां कुन्थु हितनिरूपितं । अशेषक्लेशनिर्मोक्षपूर्वसौख्यारणादरं ॥ ११ ॥