________________
१२२
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा माल्यानि वाक्स्तुतिमयैः कुसुमैः सदृब्धा
न्यादाय मानसकरैरभितः किरन्तः । पर्येम आदृतियुता भगवन्निषद्याः
संप्रार्थिता वयमिमे परमां गति ताः ॥ ७ ॥ शत्रुञ्जये नगवरे दमितारिपक्षाः
पाण्डोः सुताः परमनिर्वृतिमभ्युपेताः ।। तुङ्गयां तु संगरहितो बलभद्रनामा
नद्यास्तटे जितरिपुश्च सुवर्णभद्रः ॥ ८ ॥ द्रोणीमति प्रबलकुण्डलमेण्ढ़के च
वैभारपर्वततले वरसिद्धकूटे । ऋष्याद्रिके च विपुलाद्रिबलाहके च
विन्ध्ये च पोदनपुरे वृषदीपके च ॥ ९ ॥ सह्याचले च हिमवत्यपि सुप्रतिष्ठे ।
दण्डात्मके गजपथे पृथुसारयष्टौ । ये साधवो हतमलाः सुगतिं प्रयाताः
स्थानानि तानि जगति प्रथितान्यभूवन् ॥ १० ॥ इक्षोविकाररसपृक्तगुणेन लोके
___पिष्टोऽधिकां मधुरतामुपयाति यद्वत् । तद्वच्च पुण्यपुरुषैरुषितानि नित्यं ।
स्थानानि तानि जगतामिह पावनानि ॥ ११ ॥ इत्यर्हतां शमवतां च महामुनीनां
प्रोक्ता मयात्र परिनिर्वृतिभूमिदेशाः । ते मे जिना जितभया मुनयश्च शान्ताः
दिश्यासुराशु सुगतिं निरवद्यसौख्यम् ॥ १२ ॥