________________
संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि
११९
भृङ्गाराद्वककलशाद्युपकरणैरष्टशतकपरिसंख्यानैः । प्रत्येकं चित्रगुणैः कृतझणझणनिनदवितघण्टाजालैः ॥ २४ ॥ प्रविवांछत नित्यं हिरण्यमयानीश्वेरेशिना भवनानि । गन्धकुटीगतमृगपतिविष्टररुचिराणि विविधविभवयुतानि ॥ २५ ॥ येषु जिनानां प्रतिमाः पंचशतशरासनोच्छ्तिाः सत्प्रतिमाः । मणिकनकरजतविकृता दिनकरकोटिप्रभाधिकप्रभदेहाः ॥ २६ ॥ तानि सदा वंदेऽहं भानुप्रतिमानि यानि कानि च तानि । यशसां महसां प्रतिदिशमतिशयशोभाविभञ्जि पापविभञ्जि ॥ २७ ॥