SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ (२०) सम्भवतः श्रीजटासिंहनन्दीकारिता 'श्रीजिननिर्वाणभूमिस्तुतिः' (ईस्वी सप्तमशताब्द्याः मध्यभागः प्रायः) (विषमवृत्तम् ) सप्तत्यधिकशतप्रियधर्मक्षेत्रगततीर्थकरवरवृषभान् । भूतभविष्यत्संप्रतिकालभवान्भवविहानये विनतोऽस्मि ॥ १ ॥ अस्यामवसर्पिण्यां वृषभजिनः प्रथमतीर्थकर्ता भर्ता । अष्टापदगिरिमस्तकगतस्थितो मुक्तिमाप पापान्मुक्तः ॥ २ ॥ श्रीवासुपूज्यभगवान् शिवासु पूजासु पूजितस्त्रिदशानां । चम्पायां दुरितहरः परमपदं प्रापदापदामन्तगतः ॥ ३ ॥ मुदितमतिबलमुरारिप्रपूजितो जितकषायरिपुरथ जातः । बृहदूर्जयन्तशिखरे शिखामणिस्त्रिभुवनस्य नेमिर्भगवान् ॥ ४ ॥ पावापुरवरसरसां मध्यगतः सिद्धिवृद्धितपसां महसां । वीरो नीरदनादो भूरिगुणश्चारुशोभमास्पदमगमत् ॥ ५ ॥ सम्मदकरिवनपरिवृत-सम्मेद-गिरीन्द्रमस्तके विस्तीर्णे । शेषा ये तीर्थकराः कीर्तिभृतः प्रार्थितार्थसिद्धिमवापन् ॥ ६ ॥ शेषाणां केवलिनामशेषमतवेदिगणभृतां साधूनाम् ।। गिरितलविवरदरीसरिदुपवनतरु-विटपिजलधिदेहशिखासु ॥ ७ ॥ मोक्षगतिहेतुभूतस्थानानि सुरेन्द्ररुन्द्रभक्तिनुतानि । मङ्गलभूतान्येतान्यङ्गीकृतधर्मकर्मणामस्माकम् ॥ ८ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy