________________
(१९) सम्भवतः श्रीजटासिहनन्दीकृता 'श्रीनन्दीश्वरसद्वीपसमेता श्रीत्रिभुवनस्थितशाश्वत्जिनप्रतिमास्तुतिः' (प्रायः ईस्वी सप्तशताब्द्याः मध्यभागः)
(विषमवृत्तम्)
त्रिदशपतिमुकुटतटगतमणिगणकरनिकरसलिलधाराधौतक्रम- । कमलयुगलजिनपतिरुचिरचिरबिम्बविलयविरहितनिलयान् ॥ १ ॥ निलयानहमिह महसां सहसाप्रणिपतनपूर्वमवनौम्यवनौ । त्रय्या त्रय्या शुद्ध्या निसर्गशुद्धाण्विशुद्धये घनरजसाम् ॥ २ ॥ भावनसुरभवनेषु द्वासप्ततिशतसहस्रसंख्याऽभ्यधिकाः । कोट्यः सप्त प्रोक्ता भवनानां भूरितेजसां भुवनानाम् ॥ ३ ॥ त्रिभुवनभूतविभूनां संख्यातीतान्यसंख्यगुणयुक्तानि । त्रिभुवनजन-नयन-नमः प्रियाणि भवनानि भौमविबुधनुतानि ॥ ४ ॥ यावन्ति सन्ति कान्तज्योतिर्लोकाधिदेवताभिनुतानि । कल्पेऽनेकविकल्पे कल्पातीतेऽहमिन्द्रकल्पानल्पे ॥ ५ ॥ विंशतिरथ त्रिसहिता सहस्रगुणिता च सप्तनवति प्रोक्ता । चतुरधिकाशीतिरतः पंचकशून्येन विनिहतान्यनघानि ॥ ६ ॥ अष्टापंचाशदतश्चतुःशतानीह मानुषे च क्षेत्रे । लोकालोकविभागप्रलोकनालोकसंयुजां जयभाजाम् ॥ ७ ॥ नवनवचतुःशतानि च सप्त च नवतिः सहस्रगुणिताः षट् च । पंचाशत्पंचवियत्प्रहताः पुनरत्र कोट्योऽष्टौ प्रोक्ताः ॥ ८ ॥ एतावन्त्येव सतामकृत्रिमाण्यथ जिनेशिनां भवनानि । भुवनत्रितये त्रिभुवनसुरसमितिसमज़मानसत्प्रतिमानि ॥ ९ ॥ वक्षाररुचककुण्डलरौप्यनगोत्तरकुलेषुकारनगेषु । कुरुषु च जिनभवनानि त्रिंशदान्यधिकानि तानि षड्विंशत्या ॥ १० ॥