________________
११६
बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा एतेनेति त्वरितं ज्योतिय॑न्तरदिवौकसाममृतभुजः । कुलिशभृदाज्ञापनया कुर्वन्त्यन्ये समन्ततो व्याह्वानम् ॥ १२ ॥ स्फुरदसहस्ररुचिरं विमलमहारत्नकिरणनिकरपरीतम् । प्रहसितकिरणसहस्रद्युतिमण्डलमग्रगामि धर्मसुचक्रम् ॥ १३ ॥ इत्यष्टमङ्गलं च स्वादर्शप्रभृति भक्तिरागपरीतैः । उपकल्प्यन्ते त्रिदशरेतेऽपि निरुपमातिविशेषाः ॥ १४ ॥ वैडूर्यरुचिरविटपप्रवालमृदुपल्लवोपशोभितशाखः । श्रीमानशोकवृक्षो वरमरकतपत्रगहनबहलच्छायः ॥ १५ ॥ मन्दारकुन्दकुवलयनीलोत्पलकमलमालतीबकुलाद्यैः । समदभ्रमरपरीतैर्व्यामिश्रा पतति कुसुमवृष्टिर्नभसः ॥ १६ ॥ कटककटिसूत्रकुण्डलकेयूरप्रभृतिभूषिताङ्गौ स्वङ्गौ । यक्षौ कमलदलाक्षौ परिनिक्षिपतः सलीलचामरयुगलम् ॥ १७ ॥ आकस्मिकमिव युगपद्दिवसकरसहस्रमपगतव्यवधानम् । भामण्डलमविभावितरात्रिन्दिवभेदमतितरामाभाति ॥ १८ ॥ प्रबलपवनाभिघातप्रक्षुभितसमुद्रघोषमन्द्रध्वानम् ।। दन्ध्वन्यते सुवीणावंशादिसुवाद्यदुन्दिभिस्तालसमम् ॥ १९ ॥ त्रिभुवनपतितालाञ्छनमिन्दुत्रयतुल्यमतुलमुक्ताजालम् । छत्रत्रयं च सुबृहद्वैडूर्यविक्लृप्तदण्डमधिकमनोज्ञम् ॥ २० ॥ ध्वनिरपि योजनमेकं प्रजायते श्रोत्रहृदयहारिंगभीरः । ससलिलजलधरपटलध्वनितमिव प्रविततान्ताशावलयम् ॥ २१ ॥ स्फुरितांशुरत्नदीधितिपरिविच्छरितामरेन्द्रचापच्छायम् । ध्रियते मृगेन्द्रवर्यैः स्फटिकशिलाघटितसिंहाविष्टरमतुलम् ॥ २२ ॥ यस्येह चतुस्त्रिंशत्प्रवरगुणा प्रातिहार्यलक्ष्म्यश्चाष्टौ । तस्मै नमो भगवते त्रिभुवनपरमेश्वरार्हते गुणमहते ॥ २३ ॥