________________
(१८) सम्भवतः श्रीजटासिंहनन्दीप्रणीता 'श्रीअर्हद्विभूतिस्तवः'
(प्रायः ईस्वी सप्तमीशताब्द्याः मध्यभागः)
(विषमवृत्तम्)
नित्यं निःस्वेदत्वं निर्मलता क्षीरगौररुधिरत्वं च ।। स्वाद्याकृतिसंहनने सौरूप्यं सौरभं च सौलक्ष्यम् ॥ १ ॥ अप्रतिमवीर्यता च प्रियहितवादित्वमन्यदमितगुणस्य । प्रथिता दशसंख्याता स्वतिशयधर्माः स्वयम्भूवो देहस्य ॥ २ ॥ गव्यूतिशतचतुष्टसुभिक्षतागगनगमनमप्राणिवधः । भुक्त्युपसर्गाभावश्चतुरास्यत्वं च सर्वविद्येश्वरता ॥ ३ ॥ अच्छायत्वमपक्ष्मस्पन्दश्च समप्रसिद्धनखकेशत्वम् । स्वतिशयगुणा भगवतो घातिक्षयजा भवन्ति तेपि दशैव ॥ ४ ॥ सार्वार्धमागधीया भाषा मैत्री च सर्वजनताविषया । सर्वत्रफलस्तबकप्रवालकुसुमोपशोभिततरुपरिणामा ॥ ५ ॥ आदर्शतलप्रतिमा रत्नमयी जायते मही च मनोज्ञा । विहरणमन्वेत्यनिलः परमानन्दश्च भवति सर्वजनस्य ॥ ६ ॥ मरुतोऽपि सुरभिगंधव्यामिश्रा योजनान्तरं भूभागम् । व्युपशमितघूलिकण्टकतृणकीटकशर्करोपलं प्रकुर्वन्ति ॥ ७ ॥ तदनु स्तनितकुमारा विद्युन्मालाविलासहासविभूषाः । प्रकिरन्ति सुरभिगन्धिं गन्धोदकवृष्टिमाज्ञया त्रिदशपतेः ॥ ८ ॥ वरपद्मरागकेसरमतुलसुखस्पर्शहेममयदलनिचयम् । पादन्यासे पद्मं सप्त पुरः पृष्ठतश्च सप्त भवन्ति ॥ ९ ॥ फलभारनम्रशालिव्रीह्यादिसमस्तसस्यधृतरोमाञ्चा । परिहषितेव च भूमिस्त्रिभुवननाथस्य वैभवं पश्यन्ती ॥ १० ॥ शरदुदयविमलसलिलं सर इव गगनं विराजते विगतमलम् । जहति च दिशस्तिमिरिकां विगतरजः प्रभृतिजिह्मताभावं सद्यः ॥ ११ ॥