________________
११४
बृहद् -निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
अथ भगवान् सप्रापद्दिव्यं वैभारपर्वतं रम्यम् । चातुर्वर्ण्यसुसङ्घः तत्राभूद् गौतमप्रभृति ॥ १३ ॥ छत्राशोकौ घोषं सिंहासनदुन्दुभी कुसुमवृष्टिम् । वरचामरभामण्डलदिव्यान्यन्यानि चावापत् ॥ १४ ॥
दशविधमनगाराणामेकादशधोत्तरं तथा धर्मम् । देशयमानो व्यवहरत्रिंशद्वर्षाण्यथ जिनेन्द्रः ॥ १५ ॥
पद्मवनदीर्धिकाकुलविविधद्रुमखण्डमण्डिते रम्ये । पावानगरोद्याने व्युत्सर्गेण स्थितः स मुनिः ॥ १६ ॥ कार्तिक कृष्णास्यान्ते स्वातावृक्षे निहत्य कर्मरजः । अवशेषं संप्रापद्व्यजरामरमक्षयं सौख्यम् ॥ १७ ॥ परिनिर्वृतं जिनेद्रं ज्ञात्वा विबुधा ह्यथाशु चागम्य । देवतरुरक्तचन्दनकालागुरुसुरभिगोशीर्षैः ॥ १८ ॥
अग्नीन्द्राज्जिनदेहं मुकुटानलसुरभिधूपवरमाल्यैः । अभ्यर्च्य गणधरानपि गता दिवं खं च वनभवने ॥ १९ ॥
इत्येवं भगवति वर्धमानचन्द्रे, यः स्तोत्रं पठति सुसन्ध्योर्द्वयोर्हि । सोऽनन्तपरमसुखं नृदेवलोके भुक्त्वान्ते शिवपदमक्षरमाश्रयाति ॥ २० ॥